पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ राजतरङ्गिणी

भ्रष्टं निर्झरवारि शुभ्रमचलैः स्वीयेन भूयः क्वचि-
लभ्यं लभ्यमथाभ्रतः कलुषतादुष्टं प्रकृष्टं न तत् ।
निर्यन्निर्भरनिम्नगाम्बु नभसः प्राप्येत नित्यं दध-
त्प्रालेयत्वमुपेत्य शुद्धिमधिकां नाद्वेर्हिमाद्रेर्नगैः ॥ ३०३६ ॥
तदर्थमेव ग्रथितो योनर्थो ग्रथितात्मनः ।
स तेन स्वस्थतां नेतुमर्थितो न स्पृशेद्रुषम् ॥ ३०३७ ॥
प्लोषाय योस्य दववहिमदादमुष्मि-
न्स्वस्थे स तेन शिखिना ग्लपितः समीपम् ।
अभ्येति चन्दनतरोर्दववह्निदाह-
शान्त्यै यदि प्रियकृदेष न तस्य किं स्यात् ॥ ३०३८ ॥
समग्रो दुर्गतावर्हदपकर्तेव भूपतिम् ।
लोकनाथं तमुद्धर्तु धीरं धन्यः पुनः पुनः ॥ ३०३९ ॥
राजप्रसादनोपायान्वेषी वलहरान्तिकम् ।
राजदूतमथायान्तमेकमेकं व्यलोकयत् ॥ ३०४० ॥
दरद्देशं व्रजन्दृष्टवाक्प्राक्प्रज्ञातुमन्तिकम् ।
स नमन्तं तमानीय ततः स्मेर इवाब्रवीत् ॥ ३०४१ ॥
राज्ञः किमन्यसंधानैः संधिबन्धात्त्वसौ मया ।
प्राज्ञैर्हि भिषजा भोज्यमातुराय समर्प्यते ॥ ३०४२ ॥
तत्तस्याश्रद्दधानस्य नर्मस्मेरस्य जानतः ।
प्रत्ययोत्पादनं तैस्तैरालापैः किंचन व्यधात् ॥ ३०४३ ॥
निर्दम्भभाषितै रूढविस्रम्भः स कथान्तरे |
अथाभिगम्य राजानं स्तुवन्भोजमभाषत ॥ ३०४४ ॥
राजपुत्राभिजातस्य पादच्छायास्य लभ्यते ।
स्वर्णाद्रेरिव कल्याणप्रकृतेः पुण्यभागिभिः ॥ ३०४५ ॥