पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः । २६३

जातैः क्षमावलयोद्वहे फणिकुलैर्धिग्भोगिडिम्बैर्मुधा
व्यालग्राहिविकासितस्य कुहरैर्ग्रामस्य हा गृह्यते ।
एतान्मिक्षयितुं न तु प्रथयितुं ते जीविकायै जन-
त्रासार्थ ननु कारयन्ति हि तेर्निर्मजनोन्मजनम्॥ ३०२८ ॥
इत्युक्तवन्तं तं सान्त्वयित्वा भोजो व्यसर्जयत् ।
तदेव चाशु व्याकोशविवेंकः समपद्यत ॥ ३०२९ ॥
भव्यात्मत्वं प्रशममहिमोल्लासने हन्त हेतु-
र्भावानां तु ध्रुवमपरथा मार्दवं क्रूरता वा।
स्पृष्टं पादैरमृतमहसः स्यात्कठोरं हिमांशो-
र्याति ग्रावाप्यहह रभसादार्द्रतां चन्द्रकान्तः ॥ ३०३० ॥
राजन्याभिजने जातोऽप्यलज्जत्वमशिक्षितः ।
सोन्तरं स्वस्य राज्ञश्च मुहुर्महदचिन्तयत् ॥ ३०३१ ॥
गुणैः शौर्यनयत्यागसत्यसत्त्वादिभिः प्रभोः ।
पूर्वेप्युर्वीभुजः खर्वा क्षुद्राः स्पर्धासु के वयम् ॥ ३०३२ ॥
तस्य प्रभावदीप्तेपि समये क्षान्तिशीतला ।
शक्तिः क्षयजडत्वेपि मुग्धानां नो महोष्मता ॥ ३०३३ ॥
क्ष्वेडाग्नितापनिविडोरगसंगमेपि
तुङ्गस्य चन्दनतरोरपि शीतलत्वम् ।
काले हिमर्तुपरिपिञ्जरसंज्वरेपि
निम्नस्य कूपकुहरस्य महोष्मयोगः ॥ ३०३४ ॥
कुतोपि पर्ययात्कार्य सुप्तं नृपममुं विना ।
प्राप्य कस्य पुनः प्राप्यमप्यशुद्ध्या न बाधितुम् ॥ ३०३५ ॥

१ तदैव इत्युचितम् । २ अतिशीतलत्वम् इत्युचितम् ।