पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ राजतरङ्गिणी

उग्राभिषङ्गमनुषङ्गि परस्य दुःखं
हन्तालथं व्यथयति प्रसभाद्रभावम् ।
बद्धः सरोजकुहरे विरहार्तनादै-
श्वक्राभिधस्य मधुपोधिकमेति दैन्यम् ॥ ३०१७ ॥
रणे पूर्णव्रणाश्यानशोणितो लूनकुन्तलः ।
फेनोद्गार्याननः क्रन्दस्तेनैकः प्रेक्ष्यत द्विजः ॥ ३०१८ ॥
स पृष्टो विप्लुतैर्नीतः सर्वस्वं विक्षतं तथा ।
स्वं डामरैर्निवेद्यैनं निनिन्द त्रातुमक्षमम् ॥ ३०१९ ॥
स्वदौःस्थ्यार्तमनास्तस्य दुःखेन व्यथितोन्वहम् ।
घट्टिताव्रण इव प्राह स्मेति स सान्त्वयन् ॥ ३०२० ॥
गर्हार्होस्मि न ते ब्रह्मन्योनुग्राह्योहमीदृशः ।
विषमे वर्तमानश्चेत्यथ सोपि तमब्रवीत् ॥ ३०२१ ॥
दुर्ग्रहेणामुना ब्रूहि कोर्थः पार्थिवपुत्र ते ।
सारासारविदो यूनः कुले जातस्य मानिनः ॥ ३०२२ ॥
प्राणान्संदेहमारोप्य प्रणम्य प्राकृताशयान् ।
पीडयित्वा विशः क्लेशैः कार्य किमिव पश्यसि ॥ ३०२३ ॥
यश्च ते प्रतिभायेव जेतव्यो विदितो न किम् ।
अग्निशौचः स सारङ्गः परशौर्याग्निमजने ॥ ३०२४ ॥
यत्र शस्त्रशलाकापि विकला तद्विधीयते ।
इन्दीवरदलद्रोण्या घटनं स्फाटिकाश्मनः ॥ ३०२५ ॥
पृथ्वीहरावतारादिप्रत्यनीकिजितः परे ।
के नामास्य न संघर्षे क्षुद्रप्राया दरिद्रति ॥ ३०२६ ॥
किं दृप्य एव बुद्धापि कृत्यं द्वैराज्यजीविनाम् ।
भृत्याशयाः फणिग्राहगृहीता इव भोगिनः ॥ ३०२७ ॥

१ नीतसर्वस्वं इति स्यात् ।