पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६१ अष्टमस्तरङ्गः ।

अमात्यमतिजाड्येन नष्टे कृत्येथ कृत्यवित् ।
स्वयमुत्तम्भने नीतः संरेभेसंभ्रमो नृपः ॥ ३००८ ॥
चैत्रः पादपमण्डलस्य तटिनीतोयस्य वर्षागमः
सत्कारो गुणगौरवस्य नयनप्रेम्णोन्तिकासेवनम् |
ऐश्वर्यस्य महोद्यमो जयविधेर्गाढाविषादग्रहः
कर्तव्यस्य च सिंहदेवनृपतिर्लानौ न तत्त्वावहः ॥३००९॥
प्रवाहेणेव कृत्यस्य हटेन हरतोन्तरे ।
प्रातिलोम्यं श्रितवता पारं गन्तुं न पार्यते ॥ ३०१० ॥
अतो धूर्ती नृपो मुग्ध इति ज्ञातोरिभिर्मुधा ।
मौग्ध्यं प्रदर्शयंस्तेषां यतते स्माभिसंधये ॥ ३०११ ॥
स हि यत्तत्प्रदानेन भजन्भोजान्तिकस्थितीन् ।
तस्याविश्वासपात्रत्वं संत्रस्तस्याभितोनयत् ॥ ३०१२ ॥
गन्धेन वासितोत्सङ्गाः कुरङ्गार्यङ्गजन्मना ।
प्रज्वलन्त्यो विभाव्यन्ते तटिन्योपि कवाटिभिः ॥ ३०१३ ॥
नीडस्यान्तः सरन्ध्रस्य सर्वतोहि भयं स्पृशन् ।
जाले द्वाराग्रबद्धे च निर्गमे पतनं विदन् ॥ ३०१४ ॥
ताम्येद्यथा खगो भोजस्तथान्तःस्थेष्वविश्वसन् ।
बहिर्भूपेन रुद्धाध्वा प्रस्थानेप्यभजद्भयम् ॥ ३०१५ ॥
युग्मम् ॥
तदा स दौःस्थ्यातिथितां प्राप्तः शैक्षत न क्षणम् ।
मनोविनोदनं किंचित्कृत्यं लोकद्वयोचितम् ॥ ३०१६ ॥

१ उत्तम्भनं नीतेः इति स्यात् ।