पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० राजतरङ्गिणी

अभ्यर्णस्थान्यलहरप्रमुखांश्च विदूरगान् ।
अपुष्णात्साल्हणिः स्वर्णैः परां कोशेशतां भजन् ॥ २७६८ ॥
ततः स्वजनितोत्पिञ्जतया निश्चोद्यचाक्रिकः ।
भोजेन राजवदनः समगंस्तापसाध्वसम् ॥ २७६९ ॥
तयोरकृतकर्तव्यविशेषेणेतरेतरम् ।
जातसौष्ठवयोः क्षिप्रमविश्वासो व्यशीर्यत ॥ २७७० ॥
अभ्यमित्रीणतां तस्यानिच्छतो दरदं विना ।
मदात्साहायकायैच्छन्मितानेव स तान्हयान् ॥ २७७१ ॥
स्युश्चेत्सोढाग्रिमाटोपाः कटकस्यास्य नो द्विषः ।
तत्साम्यमुन्मिषेद्यद्धा भङ्गो भूयोपि योगभित् ॥ २७७२ ॥
तस्मात्सर्वाभिसारेण रणमेकं ममेच्छतः ।
विजयावजयावाप्तिरेकाहान्तरिता मता ॥ २७७३ ॥
व्याजहारेति यद्भोजस्तदेषोथ हसन्स्मयात् ।
निन्ये तद्दारदं सैन्यमुपेक्ष्यागमिनीश्चमूः ॥ २७७४ ॥
तिलकम् ॥
संकटान्ते वितीर्णानुयात्रस्तेषां प्रसर्पताम् ।
स राजबीजी शुश्राव दरद्वाजमथागतम् ॥ २७७५ ॥
तत्संगमाय व्यावृत्ते तस्मिन्कोट्टान्तिकं पुनः ।
प्रावेशयद्वलहरो मातृग्रामं स तद्बलम् ॥ २७७६ ॥
दिशस्ततो वीक्ष्य वाह्रैर्भ्रान्तवातमृगा इव ।
निसर्गधीरधीर्गार्गिर्न धैर्यात्पर्यहीयत ॥ २७७७ ॥
तस्य सर्वेपि नीलाश्वडामराः स्वे च सैनिकाः ।
विपक्षैः सह बद्धैक्याः सैन्यान्दुभुक्षवो ययुः ॥ २७७८ ॥
स तथा विषमस्थोपि प्रस्थित्यै प्रार्थितो निजैः ।
म्लानाननः प्रभुं द्रष्टुं न क्षमोस्मीत्यभाषत ॥ २७७९ ॥