पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ राजतरङ्गिणी

जितेपि राजके स्वोर्व्या विनानुग्राहकं क्षमः ।
न बभूव यशोराजः शून्ये बाल इवासितुम् ॥ २७४५ ॥
प्रतीक्षमाणो द्वैराज्यपर्याप्तिं क्षमाभुजेकरोत् ।
त्रिल्लकः कालहरणं तैस्तैर्मायानतिक्रमैः ॥ २७४६ ॥
यथाकालं ततो गूढोपोढान्मण्डलकण्टकान् ।
स्वपक्षसूचीविशिखान्दिक्षु श्वाविदिवाक्षिपत् ॥ २७४७ ॥
अथ पार्श्वहरियोंभूच्चतुष्कः कोष्टकानुजः ।
राशा भ्रात्रा समं बद्धः कारागारात्पलायितः ॥ २७४८ ॥
स तेन निजजामात्रा रक्षितः स्वोपवेशने ।
असंख्यडामरयुतः शमालां संप्रवेशितः ॥ २७४९ ॥
युग्मम् ॥
आकर्ण्य कुररस्येव निनादं तस्य भेजिरे |
व्यक्ततां दस्यवो गूढा हृदस्था: शफरा इव ॥ २७५० ॥
दृप्यन्तं राजवदनं षष्ठचन्द्रोथ गर्गजः ।
रुरोध प्रलयोद्वृत्तं वेलाद्रिरिव वारिधिम् ॥ २७५१ ॥
वर्धमानक्षीयमाणसंहती तौ त्वजायताम् ।
घर्मे सजम्बालहिमौ तुषाराद्रितटाविव ॥ २७५२ ॥
षष्ठस्य जयचन्द्रश्च श्रीचन्द्रश्चानुजौ ततः ।
दूरविप्रकृतौ राजमन्दिरावाप्तवेतनौ ॥ २७५३ ॥
ज्ञातनिर्वृत्त्यपर्याप्ती धुर्यकार्यवशप्रियात् ।
प्रतीक्ष्यादग्रजाद्राशः शङ्कितावशुभागमम् ॥ २७५४ ॥
कटकाद्विद्रुतौ राजवदनान्तिकमागतौ ।
श्वशुर्यावपि भूभर्तुरागतौ प्रतियोग्यताम् ॥ २७५५ ॥

तिलकम् ॥