पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ राजतरङ्गिणी

सैन्ये गते शून्यतया मिलितैर्विहगैः सरित् ।
रुवद्भिस्तेन तौ नीतौ ऋन्दतीव व्यकल्पत ॥ २६७७ ॥
लवन्य एव मे ध्याद्ध्यात्वेहस्थमवेत्य ते ।
पुनर्नयेयुर्धन्याद्याः क्रमाद्दध्यावथेति सः ॥ २६७८ ॥
स्वं नेतुं पार्थिवचमूं प्रत्यावृत्तां निनादिनीम् ।
श्रुतेन्तरान्तरा घोषे निर्झराणामशङ्कत ॥ २६७९ ॥
अथाजायत जीमूतवितीर्णतिमिरं जगत् ।
वन्ध्यमध्यंदिनेनेव निशीथव्ययितश्रिया ॥ २६८० ॥
राधमासावधि दधुस्ततः प्रभृति वारिदाः ।
दीक्षां क्षोण्यां तुषारौघसन्त्रासूत्रणकर्मणि ॥ २६८१ ॥
विस्रब्धघात्यभव्योहं निर्ब्रह्मण्यो हियोज्झितः ।
निन्दन्स्वमिति भोजाग्रे ततो दस्युरूपाविशत् २६८२ ॥
समयापेक्षयाक्षोभो मन्युं संस्तभ्य साल्हणिः ।
सान्त्वयन्निव नास्त्यागस्तवात्रेति जगाद तम् २६८३ ॥
ऊचे च संश्रितापत्यज्ञात्याद्यापद्गतं त्वया ।
त्रातुमेतत्कृतं तत्र गर्दा नार्हसि कस्यचित् ॥ २६८४ ॥
तव द्रोहस्पृहा स्याञ्चेन्नानृशंस्यं भवेन्मयि ।
परकृत्ताभवत्तस्मादियं कालानुरोधतः ॥ २६८५ ॥
राज्ञश्च हर्षभूभर्तृवंश्या इव न वा वयम् ।
उच्छेद्याः किंतु संयम्या राजधर्मानुरोधिनः ॥ २६८६ ॥
स्वस्याख्यातिस्तयोर्बाधा राज्ञश्चामार्गगामिता ।
शेषं मां रक्षता हन्त निषिद्धा धीमता त्वया ॥ २६८७ ॥
इत्युक्तवन्तं तं त्यक्तलजाभार इवावदत् ।
साक्षी त्वमेव सर्वत्र ममेति सततं स्तुवन् ॥ २६८८ ॥