पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३१ अष्टमस्तरङ्गः ।

नायाति वाडवशिखिक्कथनेन तापं
शैत्यं हिमाद्विपयसा विशता न चाब्धिः |
कश्चिद्गभीरमनसां सततं विषाद्-
काले प्रमोदसमये च समोनुभावः ॥ २६६६ ॥
प्रीतिस्थैर्यैर्ज्ञातियोग्यैश्चोपचारैरकृत्रिमः

क्रमाद्राजाहरल्लुजां पौरुषभ्रंशजीवयोः ॥ २६६७ ।
दायादोष्ठद्वयादेव राष्ट्रे कृष्टेपि मन्त्रवित् ।
भोजनोत्पिञ्जसर्पस्य दन्तं सोन्तरचिन्तयत् ॥ २६६८ ॥
प्रवासायास भीत्या स्वैस्त्यक्तसंरम्भसंभ्रमैः ।
जिगीषुर्विद्विषच्छेषैश्चक्रे यन्निष्प्रजागरः ॥ २६६९ ॥
सल्हणः स तु विस्तीर्णच्छ्रभ्राच्छ्रन्यगृहे वसन् |
पितृव्यविग्रहोदन्तमुपलेभे न कंचन ॥ २६७० ॥
राजा गृहीत्वालंकारडामरान्तिकमागतम् ।
पृष्ठाद्वीक्ष्याभवद्रोहद्रोहसंभावनस्तदा ॥ २६७१ ॥
ददर्श च क्रमाद्दूरतया दुर्लक्ष्यविस्मृति ।
स्कन्धावारं बद्धमालं मार्गे नगरगामिनि ॥ २६७२ ॥
अज्ञातेन विदूरत्वात्पितृव्येणाश्रितं ततः ।
युग्यं चासौ धन्यषष्ठयुग्ययोरन्तरैक्षत ॥ २६७३ ॥
अचिन्तयञ्च को हेतुः कटकप्रस्थितेरितः ।
युग्यारूढश्च कोथ स्यात्तृतीयो धन्यषष्ठयोः ॥ २६७४ ॥
पृष्टस्तेनावदत्कश्चित्पामरोथ प्रमोदभाक् ।
संधिर्निबद्धो नगरं गतौ लोठनविग्रहौ ॥ २६७५ ॥
संदेहोजहतद्रोहो भयमुन्मुखतां व्रजेत् ।
शातिस्त्रेहेन तस्यासीन्मुहूर्तमपहस्तितम् ॥ २६७६ ॥

१ अकृत्रिमैः इति स्यात् । २ भोजेन इति स्यात् । ३ विस्तृति इत्युचितम् |