पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० राजतरङ्गिणी

रत्नौषधीजुषोः स्पर्शः पाण्योस्तापं स चेतसः ।
दौर्भाग्यमहरद्दहश्चास्य श्रीखण्डशीतलः ॥ २६५५ ॥
पुण्यानुभावात्कारुण्यभाजो भूमर्तुरञ्जसा ।
विस्रम्भसंभावनया स क्षणात्पस्पृशे हृदि ॥ २६५६ ॥
मा भैषीरिति हप्तोक्तिः सुखं संप्राप्स्यतीति वाक् ।
अगाम्भीर्येण भग्नेव मैन्युना त्वयि साधुना ॥ २६५७ ॥
इत्युक्ते पूर्ववैराणां भवेदुद्घाटनं कृतम् ।
बान्धवो नस्त्वमित्यस्मिन्परीहास इव क्षणे ॥ २६५८ ॥
क्लिष्टोसीति स्वप्रतापप्रभावाभाषणं भवेत् ।
ध्यात्वेति भूभृद्दृष्ट्वास्य नाप्यायं तु गिराकरोत् ॥ २६५९ ॥
तिलकम् ॥
अभयार्थनया पादौ स्प्रष्टुं नमयतः शिरः ।
संस्पर्श मौलिषु पुनर्विग्रहस्याङ्क्षिणाकरोत् ॥ २६६० ॥
का योग्यता सत्क्रियायां ममेति वदता बलात् ।
अजिग्रहत्पितृव्येण ताम्बूलं स्वकरार्पितम् ॥ २६६१ ॥
नम्रं द्वारेशमूचेभूच्छ्रमो व इति सस्मितम् ।
धन्यं षष्ठं च पस्पर्श प्रष्टं सव्येन वाहुना ॥ २६६२ ॥
दाक्ष्यदाक्षिण्यगाम्भीर्यविनयाद्यैर्विभाव्य तम् ।
भूभृगुणैः परीतं स्वं लोठनोमन्यतावरम् ॥ २६६३ ॥
आदिश्य सान्त्वनं धन्यमुखेनाथ त्रपानतम् ।
पितृव्यं प्राहिणोद्वेश्म भ्राजिष्णुविनयाञ्जलिः ॥ २६६४ ॥
अभियोगे य एवास्य नीतौ विन्यस्यतो दृशम् ।
मुखरागः स एवाभूत्फलावाप्तावविप्लुतः ॥ २६६५ ॥

१ देहाच्चास्य इति स्यात् । २ मन्युर्मे त्वयि नाघुना इति स्यात् ।