पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ राजतरङ्गिणी

पुण्यां शुद्धां च संलक्ष्य शरदीव युवाहिनीम् ।
मूर्ति तस्योल्बणं चेतः समाधास्यत एव ते ॥ २६३२ ॥
निष्कलङ्कर्वशपूर्वैर्निर्विशेषं सभाजयन् ।
चारित्रं लाघवभुवोप्रियस्त्वां सोपनेष्यति ॥ २६३३ ॥
अपकर्तृन्विपन्मग्नान्दयमानः परानपि ।
क्षमापरीक्षा हेतुत्वात्स वेत्ति ह्युपकारिणः ॥ २६३४ ॥
उक्त्वेति हृष्टस्तैर्लोलस्थूलकूर्चा गृहात्ततः ।
व्यालम्बकम्बलो गोष्ठाद्वृद्धोक्ष इव निर्ययौ ॥ २६३५ ॥
'निर्भूषणं म्लानजीर्णवस्त्रशस्त्रं निरीक्ष्य तम् ।
युग्याधिरूढमायान्तं धन्यो हीनम्रतां दधे ॥ २६३६ ॥
दीर्घास्पन्देक्षणं रूक्षघनकूर्चे सविग्रहम् ।
व्यलोकयदथोलूकमिव नष्टं गुहागृहात् ॥ २६३७ ॥
रेजे शैलश्चलद्भिस्तैः शिविरोद्दीपितानलः ।
भूपप्रतापस्वर्णस्य कषाश्मत्वमिवागतः ॥ २६३८ ॥
स्कन्धावारे वर्षतुषारं प्रसभं नभः ।
अमर्त्यभावे भूभर्तुर्विशां चिच्छेद संशयम् ॥ २६३९ ॥
प्राञ्चत्पतेद्धिमं तावन्न्रियेरन्बुडिताः क्षणात् ।
पिष्टातकान्तर्गर्ताटाः प्रविष्टा इव सैनिकाः ॥ २६४० ॥
एवमेकान्नविंशब्द दशम्यां शुक्लफाल्गुने ।
न्यूनाब्दषष्टिदेशीयो निबद्धो लोठनः पुनः ॥ २६४१ ॥
दीर्घप्रवासादायातं सत्कर्तु कटकं पुनः ।
निर्ममो हर्म्यमुत्तुङ्गमारुरोह महीपतिः ॥ २६४२ ॥
यथोचितं दानमानसंभाषणविलोकनैः
संतोष्य विसृजन्सैन्यं धन्यादीन्प्रेक्षतागतान् ॥ २६४३ ॥

१ प्राक्चेत् इति स्यात् ।