पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

ऋन्दद्वन्धुजनार्तनादचकितस्वान्तं न वा स्थीयते
नन्वेतन्मरणं सुखस्य सुभगा काप्येव संप्राप्तिभूः ॥ २६२३ ॥
मार्गे : खड्गलतावितानगहनैर्यातः पिता ते दिवं
भ्रातृभ्यामसिधेनुकण्टकवने भ्रान्त्वार्जिता सद्गतिः ।
वंशक्षुण्णमिमं निषेव्य रभसाद्ध्वानमुन्नद्धया
२२७
वृत्त्या व्योम्नि विशार्कमण्डलमिह स्वान्तं च तेजस्विनाम् ॥
साम्राज्यं विधिनोपनीतमसकृत्लैब्येन यद्धारितं
तत्रापि प्रशमोचिते वयसि यत्संचेष्टितं बालवत् ।
प्रायश्चित्तममुष्य लब्धमधुना तद्वेधसापादितं
मा भूद्राज्यमिवैतदप्यसुलभं कर्तव्यमूकस्य ते ॥ २६२५ ॥
राज्यं प्राप्तमपि प्रनष्टमसमोच्छिष्टाशनैर्यापितः
कालः सर्वजनक्षयस्य विषये याता स्थितिर्हेतुताम् ।
इत्यासीत्किमिवोचितं प्रभवतो भिक्षाचरक्ष्मापते-
र्निर्व्यूढं तु तदस्य देहविरतौ येनैष सर्वोन्नतः ॥ २६२६ ॥
स तथोत्तेजितोप्योजो नाददे तेजसोज्झितः ।
न ज्वलत्यग्निसङ्गेपि निर्वीर्य वानरेन्धनम् ॥ २६२७ ॥
शान्ताहन्तस्तु संवृत्तनिद्राभङ्ग इवार्भकः ।
ऐच्छदुद्यद्भयोद्वेगो रोदितुं प्रसृताधरम् ॥ २६२८ ॥
डामरेणार्पितं नेतुं प्रवृत्तास्तं नृपाश्रिताः ।
तादृशं वीक्ष्य कारुण्याद्धैर्याधानार्थमभ्यधुः ॥ २६२९ ॥
मा विषीद न देवस्य दयाचन्द्रोदयोज्वले ।
हृदि प्ररोहति स्वैरं विकारतिमिरान्धता ॥ २६३० ॥
स सौजन्यसुधासिन्धुः स स्थिरत्वसुराचलः ।
स प्रपन्नार्तिसंतापच्छेदचन्दनपादपः ॥ २६३१ ॥

१ मूढस्य इत्युचितम् ।