पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ राजतरङ्गिणी

व्यूहेष्वस्मासु पर्याप्तमकार्यमिति भाषिणम् ।
भोजं व्यधान्मध्यटङ्गे दुर्गस्याथ स तं पृथक् ॥ २५६८ ॥
एकस्य वार्धकाद्वेश्यापुत्रत्वादपरस्य च ।
जानन्नयोग्यतां मेने द्वैराज्याई तमेव सः ॥ २५६९ ॥
विनामुं चानयोः सम्यक्संरम्भेरन्न वैरिणः ।
इति मिथ्या प्रथां निन्ये तद्विनिःसरणं बहिः ॥ २५७० ॥
कान्तालंकारचक्रस्य काङ्क्षन्ती क्षयमित्वरी ।
चक्षूरागात्षष्ठचन्द्रे सान्द्रस्नेहार्द्रतां गता ॥ २५७१ ॥
बहिराभ्यन्तरं भेदं नयन्ती मन्त्रमाययौ |
साल्हणे: कर्णसरणि सर्वमन्विष्यतोन्वहम् ॥ २५७२ ॥
युग्मम् ॥
रागध्वान्तान्वितधियः प्रतिभेदभयेन सः ।
तस्य प्रकाशयन्नैनां गन्तुं तु प्रार्थनां व्यधात् ॥ २५७३ ॥
क्षमावाञ्शिक्षितोपेक्षो मैत्रीस्थैर्ये मुदं भजन् ।
नागः सागस्यपि दधे बोधिसत्त्व इव क्रुधम् ॥ २५७४ ॥
प्रियामन्युः सरागेण मृत्युहेतुर्महानपि ।
हृदि विस्मर्यते पृष्ठे शरभेणेव वारणः ॥ २५७५ ॥
अथ प्रस्थापितो भोज: सुप्तारिशिबिरान्तरात् ।
यातप्रायोप्यलंकारतनयेनानुयायिना ॥ २५७६ ॥
द्रोहेच्छया भयाद्वापि ध्वस्तसत्त्वेन सत्वरम् ।
व्यावृत्त्यारोपितो भूयः कोट्टस्थस्यान्तिकं पितुः ॥ २५७७ ॥
युग्मम् ॥
निर्भर्त्स्य पुत्रं गन्तासि श्वो निशीत्यभिधाय तम् ।
छन्नमस्थापयत्सोह्नि यात इत्यखिलान्वदन् ॥ २५७८ ॥