पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२११ अष्टमस्तरङ्गः ।

आरम्भात्प्रभृति क्षमापे दीक्षितेभीष्टदत्तिषु ।
शिल्पिप्रायैरपि प्रायो मठदेवगृहाः कृताः ॥ २४४७ ॥
सत्कोशांशुकरत्नादौ निरसूयेन भूभुजा ।
साधारणीकृते पौरास्तांस्तांश्चक्रुर्महोत्सवान् ॥ २४४८ ॥
अकाण्डतुहिनापातोदीपाद्यैरप्युपद्रवैः ।
नष्टेषु शालिष्वक्षीणं सुभिक्षं तत्र न क्षणे ॥ २४४९ ॥
अद्भुतं चाभवद्वाचः श्रुता यन्निशि रक्षसाम् ।
केत्वाद्युत्पातजातं च दृष्टं नष्टाश्च न प्रजाः ॥ २४५० ॥
कोष्टेश्वरानुजच्छुड्डनामा विहितविप्लवः ।
आहवैर्गुढदण्डैश्च राज्ञा निन्येन्तकान्तिकम् ॥ २४५१ ॥
चक्रे विक्रमराजादीन्भूपानुन्मथ्य पार्थिवः ।
प्ररोहं गुल्हणादीनां राज्ञां वल्लापुरादिषु ॥ २४५२ ॥
प्रेजेशाः कान्यकुब्जादावजर्येण नृपार्यमा ।
स व्यधाद्भव्यभूभोगवैभवानभिमानिनः ॥ २४५३ ॥
विद्योतमाने निचोद्यैर्मत्रैस्तत्रैवमेकदा ।
भेजे जीवितदारिद्र्यं दरद्वाजो यशोधरः ॥ २४५४ ॥
स भूम्यनन्तरोप्यन्तरक्षो राज्ञोतिसेवया ।
विपत्तौ प्रकृतिक्रान्तसंतानश्चिन्त्यतामगात् ॥ २४५५ ॥
निकृत्यास्य निजामात्यो विड्डसीहाभिधो यतः ।
संभुज्य दयितां राज्यमप्रौढतनयेहीत् ॥ २४५६॥
वशीकृत्य शनैर्देशं नाममात्रशिंशुं नृपम् ।
उच्छेत्तुमैच्छद्यावत्तं स जिघृक्षुः स्वयं क्षितिम् ॥ २४५७ ॥

१ शालिषु क्षीणं इत्युचितम् | २ प्रजेशान् इति स्यात् । ३ नाममात्रनृपं शिशुम् इति स्यात् ।