पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
अष्टमस्तरङग

नीतं क्षौद्रार्द्रकं कासायासायादर्भकेण ते ।
सोव्यक्तजिह्व: किं वेत्ति वक्तुं लग्नं शतं ततः ॥ १४१ ॥
व्रुषणोत्पाटको भिक्षाचरस्ते हठयाचकः ।
यो वारितो युद्धपटुस्तस्मै दत्तं शतत्रयम्‌ ॥ १४२ ॥
आनीते भट्टपादनां मध्यं सर्वव्ययोपरि ।
शतं शतद्वयं धूपशन्दामूलपलाण्डुषु ॥ १४३ ॥
इत्याद्यचिन्ततायुक्तापरिहार्यव्ययानसौ ।
तस्यैकीक्रुत्य गणनां लभेपि शनकैर्व्यधात् ॥ १४४ ॥
वर्षमासग्रहतिथिप्रत्याव्रुति: पुनः पुनः ।
संसारस्येव तस्यान्तं न ययौ नर्तिताङ्गुले: ॥ १४५ ॥
स मूलग्रहणं पिण्डीक्रुत्याथ सकलान्तरम्‌ ।
प्रसारितौष्ठस्तन्नेत्रे मीलयन्नभ्यधान्म्रुदु ॥ १४६ ॥
शल्यमुद्धर निक्षेपं नयोजासधनं त्विदम्‌ ।
विस्त्रम्भदत्तं निर्दम्भं दीयतां सकलान्तरम्‌ ॥ १४७ ॥
तत्स धर्म्यं वचो जानन्क्षणमुच्छुसितोभवत्‌ ।
क्षुरं क्षौद्रोपलिप्तं तु ध्यात्वा पश्चादतप्यत ॥ १४८ ॥
युक्त्यापह्नुतसर्वस्वं क्त्रौर्यानार्यमथार्थक: ।
विवादे नाशकज्जेतुं नापि स्थेया विचारकाः ॥ १४९ ॥
स्थेयैरनिश्चितन्यायं पुरो न्यस्तं ततो नृपः ।
तदित्थमिति निश्चित्य वणिजं तमभाषत ॥ १५० ॥
अद्यापि न्यासदीन्नाराः सन्ति चेत्तत्प्रदर्श्यताम्।
अंशः कियानपि ततस्ततो वच्मि यथोचितम्‌ ॥ १५१ ॥
तथा कृते तेन वीक्ष्य दीन्नारान्मन्त्रिणोव्रवित् ।
राजभिर्भविनां राज्ञां नाम्ना टङ्कः क्रियेत किम्‌ ॥ १५२ ॥
१ चिन्तिता इति युक्तम्‌ |