पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
राजतरङ्गिणी

 

तैलस्त्रिग्धमुखः स्वल्पालापो म्रुद्वाक्रुक्क्तिर्भवन्‌ ।
न्यासंग्रास्नविवादोग्रो वणिग्व्याघ्राद्धिशिष्यते ॥ १२९. ॥
विवादे श्रेष्ठिना शाठ्यं स्मितैः प्राक्सख्यदर्शनैः ।
मुक्तं मुक्तं ज्ञायमानं प्राणान्तेपि न मुच्यते ॥ १३० ॥ `
निसर्गवन्चका वेश्या: कायस्थो दिविरो वणिक्‌ ।
गुरूपदेशोपस्काऱैर्विशिष्टा: सविषाशिषोः ॥ १३१ ॥
चन्द्‌ नाङ्कालिके श्वेतांशुके धूपाधिवासिनि ।
विश्वस्तः स्याक्तिराटे यो विप्रक्रुष्टेस्य नापदः ॥ १३२ ॥
ललाटहक्पुटश्रोद्वन्द्वह्रुत्यस्तचन्दन: ।
षड्विन्दुव्रुसश्चिक इव क्षणात्प्राणान्तक्रुद्वणिक् ॥ १३३ ॥
पाण्डुश्यामोग्निधुमार्द्र: सूच्यास्यो गहनोदरः ।
तुम्बीफलोपमः श्रेष्ठी रक्तं मांसं च कर्षति ॥ १३४ ॥
सोथ निःशेषितमिषः त्क्रुद्धो निर्बर्न्धकारिणः ।
गणनापञिकां तस्य सभ्रुमङ्गमदर्शयत्‌ ॥ १३५ ॥
यदादौ श्रेयस इति न्यस्तमश्रेयसे पदम्‌ ।
आतरेष्वत्यये सेतोग्रुहीता षट्शति त्वया ॥ १३६ ॥
छिर्न्नोपानत्कषाबन्धे शतं चर्मक्रुतेर्पितम् ।
विपादिकाक्रुते दास्या नीतं पन्चाशते धृतम्‌ ॥ ९२३७ ॥
स्फोटने भाण्डभारस्य क्त्रन्दन्त्या: क्रुपयार्पितम्‌ ।
कुलाल्या बहुश: पश्य भुर्जे लग्नं शतत्रयम्‌ ॥ १३८ ॥
शिशुभ्योस्य विडालस्य क्रिताः पोषाय मूषिकाः ।
त्वया शतेनं वात्सल्याद्वट्टान्मत्स्यरसस्तथा ॥ १३९ ॥
चरणोद्वर्तनं सर्पिः शालिचुर्णं च सप्तभिः ।
त्क्रितं शतै: श्राद्धपक्ष्स्त्राने च धृतमक्षिकम् ॥ १४० ॥