पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left=११|center=अष्टमस्तरङगः|}


कर्णेजपाँल्लोष्टधरप्रखांस्तेन दु:खदै:|
कर्मभिः क्लिश्नताध्वापि पैशुन्यस्य खिली कृत: ॥ ११७ ॥
विस्म्रुतिं लब्धरज्यनां पूर्वसंकल्पवासनाः ।
प्रयान्ति प्राप्तजनुषां गर्भवासस्पृहा इव ॥ ११८ ॥
प्राग्राज्याधिगमाक्तिंचित्सदसद्यह्यचिन्तयत् ।
राज्ये तन्न विसस्मार जातिस्मर इवोन्चल: ॥ ११९ ॥
ददर्श शत्रोरद्रोहन्यान्द्रोग्ध्रुन्वा पुरानुगान्‌ ।
कर्वव्यायुगुणं तेषां प्रतिपत्तिमदर्शयत्‌ ॥ १२० ॥
स्मरेन्नोपपतिः पूवैपतिद्रोहं कुयोपितः।
पूर्बस्वाम्यरितां चाद्य कुभृत्यस्येश्वरो जडः ॥ १२१ ॥
शेषाहिदेहान्मेदिन्या समं प्रज्ञापि राङ्यभुत् ।
तस्मिन्परिणता नूनं क्रुत्याक्रुत्यबिबेक्तरि ॥ १२२ ॥
तथाह्वेकस्य वणिजो व्यवहर्त्रुश्च सोभवत्‌ ।
विवादे संशयं छिन्दन्नेवं स्थेयाद्यगोचरे ॥ १२३ ॥
सौह्रुदारूढसद्भावे व्यापदौपयिकं धनी ।
न्यासीचकार दीन्नारलक्ष्यं कोपि वणिग्गृहे ॥ १२४ ॥
ते पयुज्यमाना च व्ययेषु वणिजः करात्‌ ।
कियतवपि ग्रुहितभुद्यतमत्रान्तरन्तरा ॥ १२५ ॥
त्रिंशद्विंश--द्यातासु समासु न्यासधारिणम्‌ ।
ग्रुहितशेपं दातुं स धनं प्रार्थयताथ तम्‌ ॥ १२६ ॥
वणिक्तु कुकृती तस्य न्यासग्रासाय सोद्यमः ।
कालापहारमकरोत्तैस्तै: कलुपधीर्मिपै: ॥ १२७ ॥
स्रोतोभिर्व्यस्तमम्भोधौ लभ्यं मेघमुलखै: पय:
प्राप्तिर्भूयस्तु नास्त्ये वाणिङ्न्यस्तस्य वस्तुनः ॥ १२८ ॥