पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः । २०९

बुधः सदोषधीशान्तिहेतोर्जातः कलावतः ।
यः कविर्दानवत्त्वे च ख्यातस्त्यागेन योजयत् ॥ २४२४ ॥
नृसिंहसेवी निर्हिसहिरण्यकशिपुच्छिदः ।
वराहसमये दत्तगौश्च योपूर्ववैष्णवः ॥ २४२५ ॥
भट्टारकमठाभ्यर्णे पूर्णवार्धाविव प्रहः ।
मठः शृङ्गारभट्टस्य ख्यात्यानौचित्ययोज्झितः ॥ २४२६ ॥
सांधिविग्रहिको दार्वाभिसारोर्वीभुजोकरोत् ।
अष्टमूर्तेर्जट्टनामा प्रतिष्ठां पुण्यकर्मठः ॥ २४२७ ॥
पुष्पाकरप्रणयभूः सुभगा विभूति-
रेकस्य हन्त करवीरतरोद्रुमेषु ।
पुष्पाणि यस्य सफलीकुरुते स्वयं त
त्प्रादुर्भवत्किमपि लिङ्गमनङ्गशत्रोः ॥ २४२८ ॥
विभूत्या संविभक्तेषु भूभुजाखिलमत्रिषु ।
उत्कट्टकोटि भुट्टाख्यः परं जहानुजोर्हति ॥ २४२९ ॥
स्वयंभूः प्रकटीभूय पूजां स्वीकुरुते स्वयम् ।
ज्येष्टरुद्रो वसिष्ठस्य यस्य वा बालकेश्वरः ॥ २४३० ॥
सविहारमठोदग्रवेश्मभिः कैलुषोज्झितः ।
तेन तत्र कृतं भुट्टपुराख्यं पुटभेदनम् ॥ २४३१ ॥
नगरेपि हरः प्रत्यष्ठापि भुट्टेश्वराभिधः ।
सरश्च मडवग्रामे धर्मविभ्रमदर्पणः ॥ २४३२ ॥
नीत्वा प्रतिष्ठां वैकुण्ठमठादि स्वविहारभूः ।
रत्नादेव्या दृढं चक्रे स्वार्थग्रथन सुस्थिरा ॥ २४३३ ॥
रत्नापुरे बहुद्वारमहायें निरघो मठः ।
धत्ते सुकृतहंसस्य स्फीतवीतंसविभ्रमम् ॥ २४३४ ॥

१ उत्कर्षकोटिं इति स्यात् । २ कलुषोज्झितम् इति स्यात् ।