पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

नाद्राक्ष्म नाश्रौष्म वापि बद्धे भर्तरि यत्तदा ।
कोष्टकस्य वधूरन्वतिष्ठन्मानवती सती ॥ २३३४ ॥
जीवन्भूयोपि लभ्येत त्वया स पतिरित्यसौ ।
बन्धूनामवधीयक्ति प्राविशद्यद्भुताशनम् ॥ २३३५ ॥
२०१
सप्तर्षियोषिदालेपतर्षकिल्विषदूषितः ।
तस्या सतीलोकगायाः पादाभ्यां पावितोनलः ॥ २३३६ ॥
वसन्तस्य सुता धन्योदयभ्रातुः पुपोष सा |
शुचिवंशाभिमानेन न डामरवधूव्रतम् ॥ २३३७॥
लवन्यललनाः कुर्युर्वैधव्येपि धनेच्छया ।
ग्रामकार्यिकुटुम्ब्यादीन्नितम्बाभोगभागिनः ॥ २३३८ ॥
मतिव्यामोहनिर्व्यूढवैक्लव्यस्याभिमानिनः ।
तयानुगाभ्यां च कृतं कोष्टकस्योच्चकैः शिरः ॥ २३३९ ॥
रूढव्रणोपि क्रिमिसाद्भूतः कैरपि किल्बिषैः ।
निष्प्राणो गणरात्रेण कारायां कोष्टकोभवत् ॥ २३४० ॥
अथ चित्ररथः शोषकृशः कलुषितं नृपम् ।
श्रुत्वा मल्लार्जुनेनाभूद्भयादत्यन्त दुःखितः ॥ २३४१ ॥
पत्नी तस्यैकभार्यस्य प्रिया सूर्यमती सती ।
परलोकातिथिः पूर्व विभवप्रतिभूरभूत् ॥ २३४२ ॥
देहे याप्यहताप्याये गेहे गतपरिग्रहे ।
पत्यौ वैमत्यकलुषे नेपदप्येष पिप्रिये ॥ २३४३ ॥
तीर्थस्थितस्य न स्यान्मे सागसोप्यप्रियं नृपात् ।
इति संचिन्त्य स प्रायान्मिषान्मर्तु सुरेश्वरीम् ॥ २३४४ ॥
अथ नानार्थभूयिष्ठां धनाधीशाधिकश्रियः ।
स्थानात्ततस्ततस्तस्य पार्थिवोपाहरच्छ्रियम् ॥ २३४५ ॥

२६