पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२००. राजतरङ्गिणी

प्रतिप्रहृतिषु क्षिप्रापतत्पाणिमपारयन् ।
निहन्तुं संरुरोधेव भित्तौ व्यायामवित्स तम् ॥ २३२२ ॥
अपयातुमवस्थातुं प्रहर्तुं वाप्यशक्नुवन् ।
तस्थौ च बहुसंधानः संस्तभ्यैनमविक्षतम् ॥ २३२३ ॥
चरणास्फालनोत्फालदोःशब्दमुखरोन्तिकम्

धाविते पद्मराजेथ मल्लाकोक्षिपदीक्षणम् ॥ २३२४ ॥
प्राहरत्कुलराजोस्य लब्धरन्ध्रोथ चक्षसि ।
प्रहृत्य गच्छतः पाणेः स तस्याङ्गुष्ठमक्षिणोत् ॥ २३२५ ॥
तौ विजराजो दर्पोष्णनिबिडं प्रहरत्युभौ ।
तस्मिन्प्रतिप्रहरति क्षिप्रं प्राहरतां ततः ॥ २३२६ ॥
स त्रीनप्यभियोक्तॄंस्तांस्त्यक्त्वा दृक्पथमागतम् ।
चतुष्किकाद्वारगतं राजानं समुपाद्रवत् ॥ २३२७ ॥
लक्ष्यीभूते नृपे शीघ्रमनुधावन्ससंभ्रमम् ।
चकार कुलराजस्तं स्फिगस्थिक्षतिनिर्जवम् ॥ २३२८ ॥
ततः सर्वैर्वृतो योधैः क्लीबालीबान्स सत्वरम् ।
हत्वाभजद्वीरशय्यां रक्तस्यन्दोत्तरच्छदाम् ॥ २३२९ ॥
जीवद्यापद्गतस्वामिवीक्षितः श्लाघ्यविक्रमः ।
स एव स्पृहणीयान्तक्षणो वीरेष्वगण्यत ॥ २३३० ॥
बहिः कोष्टकभृत्येषु विद्रुतेष्वदरिद्रताम् ।
परं जनकचन्द्राख्यो धैर्येणोवाह डामरः ॥ २३३१ ॥
निरायुधो राजभृत्याद्धृत्वैकस्मात्परश्वधम् ।
स ह्ययुद्धाग्रदूतत्वं नयन्भूरीन्यमान्तिके ॥ २३३२ ॥
यियासोस्तस्य चण्डांशुमण्डलं परशुः करे |
सुषुम्णासंविभागार्थी शशिखण्ड इवाविशत् ॥ २३३३ ॥