पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

मनुष्यवाह्यमारूढः पत्रं निन्ये स नित्रपः ।
तेन स्वपालिताल्लोकानपि पश्यन्नविक्रियम् ॥ २२९८ ॥
अहीनाहारनिद्रादिवैवश्यः पशुवत्पथि ।
कृष्यमाणः स केनापि न विकल्पेन पस्पृशे ॥ २२९९ ॥
पश्यन्नानीयमानं तं गोष्तृभिस्तादृशं जनः ।
दयार्द्रहृदयश्चासीन्नाभ्यनन्दच्च भूभुजम् ॥ २३०० ॥
उवाच चानुकम्प्येस्मिञ्जन्मज्येष्ठस्य भूपतेः ।
नैतावद्भाति नैर्घृण्यमनुजे पितृवर्जिते ॥ २३०१ ॥
आसेचनकमेतस्य मेचकाजदृशो वपुः ।
क्लेशगर्ह्यमनिस्त्रिंशचेताः कः कर्तुमर्हति ॥ २३०२ ॥
पूर्वापरानुसंधानवन्ध्यस्तं दृष्टवांस्तदा ।
विस्मृतागा नृपं तत्तदित्युपालभताध्वनि ॥ २३०३ ॥
गणना काथ वा बालबालिशादौ विधीयते ।
न चित्तवृत्तेरैकाग्र्यं महतामपि सर्वदा ॥ २३०४ ॥
श्रोतॄणां द्यूतपाञ्चालीकेशकृष्ट्यादि शृण्वताम् ।
पाण्डवेभ्योधिकः क्रोधो धार्तराष्ट्र जायते ॥ २३०५ ॥
कुरूणां क्षतजापाने भग्नोरोर्मूर्घताडने ।
श्रुते पाण्डवविद्वेषस्तेषामेव च दृश्यते ॥ २३०६ ॥
परावरज्ञः कार्याणां न कश्चिन्मध्यमं विना ।
तटस्थेनुभवाभेदस्तत्र तत्र कथं भवेत् ॥ २३०७ ॥
स पौरान्रोदयन्नङ्केच्छिन्नाङ्गुल्यकमुद्वहन् ।
युग्याधिरूढो मृत्पात्रं सायं नगरमासदत् ॥ २३०८ ॥
न्यधत्ताश्वयुजा शुक्लपञ्चदश्यां महीपतिः ।
एकादशेब्दे तं रक्षियुतं नवमठान्तरे ॥ २३०९ ॥