पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

कृता रक्षामणिसमं सहायं त्वादृशं विना ।
हानि दुर्नरेन्द्रस्य बाल्ये राज्ये बहुच्छलैः ॥ २२८६ ॥
दुष्प्रेक्ष्याणां भवत्येव नियमाद्राजभास्वताम् ।
भाग्यान्तहेमन्तदिने जननेत्रविलङ्घयता ॥ २२८७ ॥
शोभते रुधिराताम्रमण्डलाग्रो यथोदये ।
तथा योस्तमये भास्वानिव वन्द्यः स भूपतिः ॥ २२८८ ॥
धन्योवतारो यस्यासीत्क्षुभ्यत्पौराङ्गनाजनः ।
उदयेस्तमयेप्यु रागव्यग्राप्सरोगणः ॥ २२८९ ॥
पदे प्रयोगं लब्ध्वार्थ किंचित्कृत्वा कुलीनवत् ।
अहं कविरिव प्रौढैः प्राप्तो निर्व्यूढिमूढताम् ॥ २२९० ॥
सत्यंकारोधुना भूत्वा विधत्तां स्वान्तसुस्थितिम् ।
साध्यत्वानतिवृत्तेन वरेणैकेन मे भवान् ॥ २२९१ ॥
इत्युक्त्वा प्रत्ययोत्पत्त्यै संस्प्रष्टुं स्फाटिकं ततः ।
स पीठं पुरतो द्वारपतेर्लिङ्गमुपानयत् ॥ २२९२ ॥
अच्छलाहवसंमर्दप्रासशूलेषुवर्षिणः ।
योधान्योद्धुं वरं सायं मानवान्नूनमिच्छति ॥ २२९३ ॥
इति संभाव्य संस्पृष्टशिवलिङ्गः स वाञ्छितम् ।
वरं तस्योररीचक्रे स च भूयो जगाद तम् ॥ २२९४ ॥
अकृष्टदृष्टिरहतः क्ष्माभुजोन्तिकमक्षतः ।
यथेहगेव प्राप्नोषि तथा त्वामर्थयेधुना ॥ २२९५ ॥
कार्पण्योपहतं तस्य वचः श्रुत्वा त्रपाजडाः ।
सर्वेप्युर्वीमुखास्तस्थुर्वृष्ट्यार्द्राः पल्लवा इव ॥ २२९६ ॥
अन्तक्षणस्ततो भिक्षोः स्मर्यमाणः स चेतसाम् ।
विकासहेतुतां प्राप स्वस्थस्य मनसः पुनः ॥ २२९७ ॥

१. अप्रौढः इति स्यात् । २. प्राप्नोमि इति स्यात् ।