पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

शुश्राव बद्धं तन्मध्ये यातं मल्लार्जुनं नृपः ।
अनुबध्नाति भव्यानामुदयेभ्युदयान्तरम् ॥ २२७५ ॥
नीयमानः स हि स्कन्धमधिरोप्यानुजीविभिः ।
अजामिकतया मार्गोल्लङ्घनाय स निःसहः ॥ २२७६ ॥
ततस्ततो भयस्थानान्निस्तीर्णो लोहराश्रितम् ।
सावर्णिकाभिधं ग्रामं प्राप्तो विन्यस्तरक्षिणा ॥ २२७७ ॥
निरुद्धो जग्गिकाख्येन ठक्कुरेण महीपतिः ।
प्रियंकरं तं च भृत्यं शुश्रावान्तिकमागतम् ॥ २२७८ ॥
बद्धप्रायोरिणा दुर्गान्निर्गतः स कथंचन |
बद्धस्तेन पुनः शक्तिः कस्य भाव्यर्थलङ्घने ॥ २२७९ ॥
गङ्गा धुमार्गलुठिता जठरात्कथंचि
देकस्य संहृतवतो निसृता महर्षेः ।
ग्रस्तापरेण कृतसागरगर्तपूर्ति::
शक्तो न कोपि भवितव्यविलङ्घनायाम् ॥ २२८० ॥
जग्गिके बद्धसंप्राप्तिपर्यन्तोपान्तरक्षिणि ।
राज्ञोदयद्वारपतिः प्रायोजि प्राज्यबुद्धिना ॥ २२८१ ॥
तं विना धैर्यगाम्भीर्यशौर्यधुर्य महाधियम् ।
संकटे नह्यवष्टम्भो राज्ञाज्ञाय्यन्यमत्रिणाम् ॥ २२८२ ॥
स ह्यतिक्रम्य सावाधान्मार्गानुभयवैतनैः ।
तमोरिस्थितमद्राक्षीत्तं क्षमापतिविद्विषम् ॥ २२८३ ॥
निष्ठाशून्येन धैर्येण शौर्यसंभावनावहः ।
स्तुवन्स तं बहिःप्राप्तं तत्तदुक्त्वाब्रवीत्पुनः ॥ २२८४ ॥
सर्वतो ज्यायसीं भर्तृभक्तिं यो बहु मन्यते ।
भवान्धुर्यो मतिमतामहृतो लोभनान्तरैः ॥ २२८५ ॥