पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

प्रष्टं भृष्टमांसादिराज्यभोगपुरःसरैः ।
सर्वैः कापुरुषैत्रासादथ चित्ररथानुमैः ॥ २२५१ ॥
ज्यायाल्लोठरथस्तस्य भ्राता भीत्या पलायितः ।
शरणं नर्तकीमेकां ययौ वार्पितस्तनः ॥ २२५२ ॥
ताइक्प्रवेशितश्चित्ररथोभ्यर्ण महीभुजा ।
मा भैषी: प्राहरत्कस्त्वामित्युक्त्वाश्वासितः स्वयम् ॥ २२५३॥
नृपाज्ञया को निहन्ता द्वारेशस्येति वादिभिः ।
तीक्ष्णोन्विष्टो भटैः सोहमित्युक्त्वा स्वं न्यदर्शयत् ॥ २२५४ ॥
धीरो योधान्स्वधैर्यात्तु लङ्कनं लाध्यविक्रमः ।
त्रिंशद्विशान्स हत्वाथ प्रहृत्य च रणे हृतः ॥ २२५५ ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ २२५६ ॥
लब्धा लिखिततत्कृत्यकारणात्पत्रिका करात् ।
तस्यान्तसमयाशंसा श्लोकेनानेन पावनी ॥ २२५७ ॥
अरुच्युन्माददीनत्वयुतश्चित्ररथस्ततः ।
रूढव्रणोपि लालाटसंधिवेधादजायत ॥ २२५८ ॥
स मासान्पञ्चषान्याप्य निराप्यायकृशाकृतिः ।
विवेष्टमानोवर्तिष्ट शयनीयतलेन्वहम् ॥ २२५९ ॥
मल्लार्जुनं पुरस्कृत्य कोष्टको विप्लवोन्मुखः ।
तन्मध्ये तरुसंबाधं गिरिदुर्गमगाहत ॥ २२६० ॥
मा मामभ्रमयं भ्राम्यन्स्वयूथ्यग्रसनोद्यमात् ।
अविस्मृतापदं लोकं पुनर्वैराज्यशङ्कितम् ॥ २२६१ ॥
अकाण्डाम्बुदजाड्येन पीडिताङ्ग इवाभजत् ।
परचक्रोदयेनाशु लोकः शिथिलशक्तिताम् ॥ २२६२ ॥

१ प्रणष्टं इति स्यात् । ३ लङ्घयन् इति स्यात् ।