पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ राजतरङ्गिणी

भट्टस्योद्भटवंशस्य पृथ्वीराजस्य नन्दनः ।
युवा विजयराजाख्यः सानुजो गाढदुर्गतः ॥ २२२७ ॥
देशान्तरं जिगमिषुर्विषमं वीक्ष्य तत्र तत् ।
व्याजहारानुजन्मानं कारुण्यास्रुकणान्किरन् ॥ २२२८ ॥
उपेक्ष्यमाणा दाक्षिण्यस्तम्भितेन महीभुजा ।
विशः सचिवपाशेन विवशाः पश्य नाशिताः ॥ २२२९ ॥
छन्दानुवृत्त्यामात्यानां यत्र क्ष्माभृदुपेक्षते ।
कस्तत्रान्यस्तु दीनानामापच्छमयिता विशाम् ॥ २२३० ॥
यद्वा न्यायोयमन्योन्यस्पर्धया यदुपप्लुतम् ।
शमिता दण्डयेच्छाम्यं शमितारं परोथवा ॥ २२३१ ॥
विशृङ्खलं नयेच्छय्यां दार्ढ्यसारं विघट्टनैः ।
कदाचिल्लोहमश्मानमश्मा लोहं कदाचन ॥ २२३२ ॥
दोषेणैकेन न द्वेष्यो राजा सर्वगुणोज्वलः ।
वधाञ्चित्ररथस्यान्यद्विधेयं नावभाति मे ॥ २२३३ ॥
धर्मः सर्वोपकार्येकक्षुद्रक्षपणमुच्यते ।
जघानाजगरं सोपि जन्तूनामन्तकं जिनः ॥ २२३४ ॥
दुर्वृत्तदमनेस्माभिः कृते तेजस्विनो जनात् ।
भूयोप्यधिकृतो बिभ्यन्न कश्चित्पीडयेत्प्रजाः ॥ २२३५ ॥
कायस्यास्य परित्यागादनन्ता जन्तवो यदि ।
सुखिनः स्युरसौ भ्रातर्वणिज्या ज्यायसी न किम्॥२२३६॥
संशुश्रुवांसं स तथेत्यथ तं कोशपीथिनम् ।
विधायानुससारैत्य हन्तुं चित्ररथं तदा ॥ २२३७ ॥
कालेऽस्मिन्धर्मदौर्बल्यकलुषेपि कलेः किल ।
प्रभावो भूमिदेवानां द्योततेद्याप्यभङ्गुरः ॥ २२३८ ।