पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ राजतरङ्गिणी

प्रविष्टः शरणं बाणवंश्यैः पापैः प्रमापितः ।
उन्मत्तो मुम्मुनिस्तस्य भ्राता कैश्चित्स्वमन्दिरे ॥ २१७९ ॥
सुजिस्यालस्तु शृङ्गारवृत्त्याभङ्गुरया हतः ।
महाकुलीनो विचरन्नौचित्येन च चित्रियः ॥ २१८० ॥
सङ्गिकाख्यः प्रतीहारो व्रणितः शनकैर्हतः ।
अन्येपि संश्रिताः सुज्जेस्तत्र तत्र प्रमिम्यिरे ॥ २१८१ ॥
जात्यवाजिजवप्राप्तप्राणाः कोटेश्वरान्तिकम् ।
आसाद्य वीरपालाद्या द्वित्रा मृत्युभयं जहुः ॥ २१८२ ॥
व्रजञ्शरदि यो दुष्टोत्थानरुद्धतुरंगमः ।
प्रपेदे सङ्गटभ्राता बन्धनं सुभटामठे ॥ २१८३ ॥
सूनुश्च सजल: सुजेः श्वेतिकश्चाग्रजात्मजः ।
उल्हणस्य तनूजश्च कारागारं प्रपेदिरे ॥ २१८४ ॥
इत्थं राजन्यमाये च प्राप्ते पिशुनवश्यताम् ।
नवमेब्दे शुचेः शुक्लपञ्चम्यां विप्लवोभवत् ॥ २१८५ ॥
कार्ये कापि विपर्यस्तसत्त्वं संस्मृत्य मन्त्रिणम् ।
तमद्यापि नृपस्तारम्भृत्योपेतोनुतप्यते ॥ २१८६ ॥
वेतालोत्थापनाच्छुभ्रलङ्घनाद्विषचर्वणात् ।
व्यालाश्लेषाच विषमं सत्यं राजोपसेवनम् ॥ २१८७ ॥
अनात्मायत्तनिस्तीर्णगुणानां चक्रवर्तिनाम् ।
शकटानामिवाग्रस्थो विश्वस्तः को न भज्यते ॥ २१८८ ॥
अयुक्तं नृपतिः सुजिवधं मेने प्रजाः पुनः ।
युक्तं ज्ञात्वा तमुद्रितशक्तितां विविदुः प्र॒जाः ॥ २१८९ ॥
भेजे राजा सजपालं कम्पनाधिपतिं ददत् ।
कुलराजे च नगराधीकारित्वं समार्पयत् ॥ २१९० ॥

१ क्वाप्यविपर्यस्त इति स्यात् । २ प्रभोः इति स्यात् ।