पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

बिभ्रन्मस्रुतेः शङ्कां जिघांसुः सुजिरित्यपि |
तथ्यं भृत्यवचो जानंस्तस्थौ दौस्थ्येन पार्थिवः ॥ २१११ ॥
गत्वा स्वयं गृहान्यौनसंबन्धं कुरुतां युवाम् ।
इत्युक्त्वा रिल्हणेनाथ स सुद्धिं समयोजयत् ॥ २११२ ॥
विश्वास्यापि तथा हन्तुं तं प्रसङ्गमनाप्नुवन् ।
उदताम्यद्दिवारात्रं तल्पोपर्यवशं. लुठन् ॥ २११३ ॥
सज्जपाले गृहाद्वन्धुनाशदुःखिन्यनागते ।
आशङ्कय साहसासिद्धिमधिकं पर्यतप्यत ॥ २११४ ॥
निपत्य वीरशयने सुस्सलक्ष्मापसत्क्रियाम् ।
भ्रातरो यस्य कल्याणराजाद्या व्यस्मरन्युधि ॥ २११५ ॥
सेनानी: कुलराजः स ख्यातो व्यायामविद्यया ।
प्राणैरानृण्यमिच्छंस्तमपृच्छच्छोककारणम् ॥ २११६ ॥
युग्मम् ॥
स संस्थापयितुं हन्तुं वाप्यशक्यं न्यवेदयत् ।
तस्याप्रतिसमाधेयं कम्पनाधीश्वराद्भयम् ॥ २११७ ॥
कियदेतन्निजप्राणमात्रलभ्यं महीभुजाम् ।
इत्याभाष्य स जग्राह साहसाध्यवसायताम् ॥ २११८ ॥
दिनद्वयमनायातो गृहेभ्यः कम्पनापतिः ।
न प्रातिभाव्यमभजत्तस्य मृत्योः श्रियोथवा ॥ २११९ ॥
वित्रम्भभृत्यः शृङ्गारनामा चाप्यब्रवीत्प्रभोः ।
तं दृष्टवस्तृतीयेह्नि शयनेवगणं स्थितम् ॥ २१२० ॥
शोभोपयोगिनो भर्तुर्नित्यं सततसेवकाः ।
कर्तुं साहससाचिव्यं विदूरेण तु पार्यते ॥ २१२१ ॥