पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७९ अष्टमस्तरङ्गः ।

अन्विष्य विद्विषः शङ्कां मत्रविन्निशि रिल्हणः ।
संनद्धसैन्यमानिन्ये पञ्चचन्द्रं तदप्रियम् ॥ २०७७ ॥
शशङ्के सजपालाच्च तस्माच्च बहुसैनिकात् ।
सुजिरन्यानगणयन्नबुद्धास्य च तद्रिपुः ॥ २०७८ ॥
आस्कन्दभीत्या निर्गत्य हयारोहै: समं गृहात् ।
व्यूढानीको निरुद्धातो जजागाराथ सोध्वनि ॥ २०७९ ॥
भूपतिप्रातिलोम्येन वर्तमानस्तदाभवत् ।
कोष्टेश्वरोपि संनद्धः सुजिना बद्धसौहृदः ॥ २०८० ॥
स्थितमप्रातिलोम्येन सोवधीन्मनुजेश्वरम् ।
इति द्वेष्योपि नितरां द्वेष्यतां नृपतेरगात् ॥ २०८१ ॥
तथा स्थिते निशीथिन्यामाचख्युस्तस्य विद्विषः ।
दुभुक्षाहेतुतां राज्ञः स्वगुप्त्यै तेन या कृता ॥ २०८२ ॥
अतथ्यं तथ्यवद्वस्तु तथ्यं वातथ्यवन्नृपः ।
यः पश्येन्मूढवत्सोर्थैस्त्यतोनर्यैः कदर्थ्यते ॥ २०८३ ॥
रत्नज्योतिर्हुतवहधिया त्यज्यते दृष्टिपातः
श्यावाक्षाणामितरविषयः ः स्वस्य संभाव्यते च ।
वस्त्वेकैकं यदिह न मृषा तन्मृषा यन्मृषा त-
त्तथ्येनेत्थं किमिव न जनैर्दृश्यते तत्त्वशून्यैः ॥ २०८४ ॥
राजाथ तद्वधादन्यदजानन्दौस्थ्यभेषजम् ।
न्ययुङ्क तस्य तीक्ष्णत्वे सज्जपालं महौजसः ॥ २०८५ ॥
स कापुरुषवद्वीरः प्रहर्तुं छद्मनाक्षमः ।
काङ्क्षनाक्षिप्य तं हन्तुं तत्र तत्रैक्षत क्षणम् ॥ २०८६ ॥
मायाप्रयोगानन्योन्यमुद्दिश्य स्पृशतोर्द्वयोः ।
क्षणे क्षणेभजद्राष्ट्रं त्रासोल्लासविलोलताम् ॥ २०८७ ॥