पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ राजतरङ्गिणी

अल्पेन हेतुनोद्भूतं द्वैतं तेषां च तस्य च ।
खलपैशुनसेकैस्तत्प्रापाशु शतशाखताम् ॥ २०६५ ॥
प्रकृत्योत्सिक्तमुत्सेकावहैः समुददीपिपत् ।
दुर्मत्रैर्विग्रहश्चाग्रे साहदेविस्तमुल्हणः ॥ २०६६ ॥
असमानां सहास्माभिः क्षमते समशीर्षिकाम् ।
कृतघ्नोयमिति स्वैरं मन्युं राज्ञ्यपि सोग्रहीत् ॥ २०६७ ॥
बिभ्यत्तु भूपतिस्तस्माद्रिल्हणं वाह्यभृत्यवत् ।
मत्रस्वैरकथाद्येषु विस्रम्भेषु व्यवर्जयत् ॥ २०६८ ॥
स तु धूर्तत्व दुर्लक्ष्यतादृक्षस्वामिवैकृतः ।
स्वेषां धैर्य परेषां तु संत्रासं माययातनोत् ॥ २०६९ ॥
समग्रशक्तिराकाङ्क्षयसंस्तवः पक्षयोईयोः ।
तस्य तु प्रययौ सजपालो दानेन मित्रताम् ॥ २०७० ॥
संनद्धयोः प्रविशतोरन्योन्यस्पर्धया तयोः ।
क्षणे क्षणे राजधानी ययौ संभ्रमलोलताम् ॥ २०७१ ॥
सुज्जिः स भूपानाक्षेतुं प्रतिपक्षान्युयुत्सया |
महीमानोत्सवास्थाने संक्षोभमुदपादयत् ॥ २०७२ ॥
कृकाटिकान्यस्तहस्तो द्वाःस्थेनावेदितो हि सः ।
तं निर्भर्त्स्य शिलाक्षेपं क्रोधरूक्ष्माक्षरोकरोत् ॥ २०७३ ॥
लिखितैरिव तान्सर्वैः सोढुं रक्षणमीशितुः ।
मिथ्या तथ्यमिवोदीर्य संग्रश्नद्भिः समर्थताम् ॥ २०७४ ॥
उपावेशयदभ्यर्णे भूपतिः परिसान्त्व्य तम् ।
सत्यस्मिन्नास्ति नः किंचिदित्यन्तस्तु व्यचिन्तयत् ॥२०७५॥
चक्रे मडवराज्यस्थैरथ प्रायो द्विजातिभिः ।
न सुज्जेः कम्पनेशत्वमिच्छाम इति वादिभिः ॥ २०७६ ॥