पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

कृतागाः क्षमापतौ लब्धक्षणे तीक्ष्णैर्जिघांसति ।
कोष्टेश्वरः पलायिष्ट ज्ञातोदन्तस्तदन्तिकात् ॥ १९८७ ॥
आस्कन्दायागते राशि गृहीतमनुजेश्वरे ।
स्वपक्षभेदोपहतः सोथ देशान्तरं ययौ ॥ १९८८ ॥
लोठनस्तु निजग्राह कांश्चिदालम्ब्य ठक्कुरान् ।
बप्पनीलाभिधे स्थाने वसन्मल्लार्जुनं बलात् ॥ १९८९ ॥
तत्र दृष्टमसंभाव्यमेवास्य खलु पौरुषम् ।
परिभ्रष्टोपि यद्बद्धपदं तमजयत्संदा ॥ १९९० ॥
जहार तुरगांल्लुण्ठि चकाराढिलिकापणे ।
मार्गद्रङ्गादिभङ्गं च सर्वत्र सोकरोत् ॥ १९९१ ॥
राजराजाभिधानेन डामरेणार्थितस्ततः ।
१७१
कश्मीरराजसंप्राप्त्यै क्रमराज्यमगाहत ॥ १९९२ ॥
तदवेत्य समीपस्थे हते चित्ररथेन सः ।
तस्मिल्लवन्ये प्रययौ बप्पनीलभुवं पुनः ॥ १९९३ ॥
तस्मिन्नास्कन्दमसकृद्ददत्यट्टिलिकामपि ।
अवरोद्धुमशक्तोभूत्कोट्टे मल्लार्जुनो वसन् ॥ १९९४ ॥
भ्रातृव्येण पितृव्यस्य दापयित्वा धनं बहु ।
ततः कोष्टेश्वरो यात्रासज्जः संधिं न्यबन्धयत् ॥ १९९५ ॥
लोहरे विहितस्थैर्ये गृहीत्वा लोठनं ततः ।
कश्मीरोर्व्या पपातासौ विजिघृक्षुः क्षमाभुजा ॥ १९९६ ॥
गिरीनुल्लङ्घ्य काट विहितवान्पदम् ।
निपत्य मार्गेनुद्धाते यावदन्यैश्च डामरैः ॥ १९९७ ॥
नावाप योगं निर्गत्य क्षिप्रकारी क्षमापतिः ।
सर्वोद्योगेन तं तावदुत्थानोपहतं व्यधात् ॥ १९९८ ॥

१ तदा इत्युचितम् ।