पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

पत्यामभिन्नभावायां गुणज्येष्ठे तथात्मजे ।
विपन्ने स तया लक्ष्म्या न कृत्यं किंचिदैक्षत ॥ १९१६ ॥
निःस्नेहत्वस्य भूपालसुलभस्य विजृम्भितम् ।
मोहनी वा श्रियः शक्तिर्यदशासीत्पुनः सुखम् ॥ १९१७॥
अकारयन्निर्धनोपि तथा वृद्धस्य कालवित् ।
लक्षैः षट्त्रिंशता मोक्षं लक्ष्मकस्य क्षमापतिः ॥ १९१८ ॥
दिष्टवृद्धिपरिक्षिप्तपुष्पवृष्टौ जनैः पथि ।
तस्मिन्प्राप्ते न कोशासीद्वाज्ञा प्रत्याहृतां श्रियम् ॥ १९१९ ॥
स लक्ष्मीमहिमक्षिप्रविस्मृताभिभवप्रथः ।
प्रभवन्पुनरेवासीन्निग्रहानुग्रहक्षमः
धनप्रलोभनिर्नष्टसर्वावष्टम्भपाटवः ।
॥ १९२० ॥
सुन्जिः साचिव्यमव्याजं भेजे लोठनभूपतेः ॥ १९२१ ॥
दत्तवान्भागिकसुतामविश्वासमपाहरत् ।
स तस्याद्यप्रियापायदुःस्थितिव्यथया समम् ॥ १९२२ ॥
अभ्यर्थ्य पार्थिवं पद्मरथं चानीतवान्कृती |
तस्य सोमलदेव्याख्यामुद्राहाय तदात्मजाम् ॥ १९२३ ॥
एवं प्रधानसंबन्धैर्बद्ध मूलं विधाय तम् ।
सोव्याहतस्य साचिव्यग्रहस्यानृण्यमाययौ ॥ १९२४ ॥
अचिन्तयञ्च कश्मीरप्रवेशं डामरादिभिः ।
बहुशः प्रार्थ्यमानेन प्रेरितो नवभूभुजा ॥ १९२५ ॥
इत्थंभूतं कृतैक्यं च समं सीमान्तभूमिपैः ।
अथ च्छलयितुं शत्रुं नीतिं प्रायुत सौस्सलिः ॥ १९२६ ॥
तत्रोदयद्वारपतिस्तस्यारम्भे गभीरधीः ।
अलुप्तसत्त्वः स्तुत्यत्वं सारेतरविदामगात् ॥ १९२७ ॥