पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः

भ्रातृव्याय च मुख्याय भूभुजां च करार्पणम् ।
विद्ध्यां जयसिंहाय वरमित्यभिमानिना ॥ १८६९ ॥
बहुर्थमर्थ्यमानेन लोठनेन तिरस्कृतः ।
सोमपालः प्रियं किंचिद्राजपक्षे न्यदर्शयत् ॥ १८७० ॥
मयि, श्वशुरसैन्यानां व्यग्राणां वैरविग्रहे ।
सुज्जेर्हिताय त्वं रन्ध्रमन्विष्यसि किमाश्रितः ॥ १८७१ ॥
इति निर्भत्सितस्तेन सुजिः स्वाहंकियोचितः ।
सर्वानुल्लङ्घ्य संनद्धो राजसैन्यग्रहेभवत् ॥ १८७२ ॥
जरढाषाढसंजातशीतज्वरमहाभयः ।
वरूथिनीमथोत्थाप्य विद्रौ निशि लक्ष्मकः ॥ १८७३ ॥
विसृष्टदूताः कटकं नष्टं वक्तुं प्रभोद्भुतम् ।
केचिदन्वसरन्सुद्धिं सैनिकास्ते जिघांसवः ॥ १८७४ ॥
पारेणैकेन भूपालसैन्यमन्येन वैरिणः ।
वर्त्मनः श्वभ्रदुर्गस्य तुल्यमेव प्रतस्थिरे ॥ १८७५ ॥
शारम्बरपथं वैरिवश्यं त्यक्त्वा यियासवः ।
स्वोर्वी कालेननाख्येन संकटेन तदन्तिके ॥ १८७६ ॥
तस्मिन्नहन्यस्खलिता वनिकावासनामनि ।
ग्रामे सैन्या न्यविक्षन्त लोकैरुञ्चावचैः समम् ॥ १८७७ ॥
युग्मम् ॥
अनुप्रस्थायिनोभ्यर्णग्रामकेष्वपि दुद्रुवुः ।
भुक्त्वा पीत्वाथ ते निन्युर्निशार्धमकुतोभयाः ॥ १८७८ ॥
अथापातं विद्विषद्भिः स्वस्य श्रावयितुं द्रुतम् ।
क्षोभभृत्सुज्जिरभ्येत्य तूर्यघोषमकारयत् ॥ १८७९ ॥
क्षणदाशेष पवाशु पलायांचक्रिरे ततः ।
तैस्तैः शैलपथैः सेना निरवष्टम्भनायकाः ॥ १८८० ॥

२१