पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

मदन न ददौ किंचित्सोथ भिक्षाचरं हतम् ।
श्रुत्वा निरुपयोगं स्वं राज्ञो ज्ञात्वा सशोकताम् ॥ १८५७ ॥
यावदेकाहमभजल्लोहरव्यसने भयम् ।
तावन्निशम्य संप्राप्तोत्सेको भूयोपि मन्युभाक् ॥ १८५८ ॥
लोठनं बद्धसंधिं वः करिष्यामीति भूभुजः ।
उक्त्वा दूतं लोठनेन दापयिष्यामि काञ्चनम् ॥ १८५९ ॥
युष्मभ्यं कथयित्वेति सोमपालं चिकीर्षितम् ।
वलितामबलत्वं च सर्वेषां स्वार्थसिद्धये ॥ १८६० ॥
समं सोमेन तत्सैन्यमन्यप्रस्थित्यलक्षितैः ।
मितैरनुगतो भृत्यैघरमूलकमासदत् ॥ १८६१ ॥
कुलकम् ॥
यद्वानौचित्यदुष्पांसुवर्षदूषितकीर्तिना ।
भोगलुब्धतया तेन हता विततसत्त्वता ॥ १८६२ ॥
तुषारशर्कराशुक्लजलपानाददुर्जरम् ।
त्यक्तुं भोज्यं मृदु स्निग्धं काश्मीरं न शशाक सः ॥१८६३॥
सतुषं शुष्कसक्कादि बहिर्भोक्तुमपारयन् ।
यैस्तैरुपायैः कश्मीरान्प्रविविक्षुरतोभवत् ॥ १८६४ ॥
काश्मीरकाः कार्यशेषमष्टा ग्रीष्मशोषिताः ।
आकर्ण्य च तदापातमाकुलत्वमशिश्रियन् ॥ १८६५ ॥
भुञ्जानैर्मृष्टमांसानि पिबद्भिः पुष्पगन्धि च ।
प्रतीहाराग्रतो हारि माकं लघु शीतलम् ॥ १८६६ ॥
आनेष्यामो जवात्सुज्जिमाकृष्य श्मश्रुसंयुगे ।
इत्थं विकत्थनैस्तैस्तैराहोपुरुषिकाः कृताः ॥ १८६७ ॥
काश्मीरकैर्मितैर्युक्तं खरौः सैन्धवकैरपि ।
अभिषेणयितुं शेकुर्न तेप्युद्यमिनोपि तम् ॥ १८६८ ॥