पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

लब्ध्वा तदर्धाध्यारोहं भर्तुः प्रेम्णातिदुर्लभम् ।
सामान्ययापि देवीत्वं जयमत्या न दूषितम् ॥ ८२ ॥
सा ह्यानृशंस्यमाधुर्यत्यागसत्प्रियतानयैः ।
अस्तम्भार्तपरित्राणमुख्यैर्भव्याभवद्गुणैः ॥ ८३ ॥
लब्धभूपालवाल्लभ्या नार्यः क्रोधात्प्रजासु यत् ।
राक्षस्य इव भङ्गाय लावण्यललिता अपि ॥ ८४ ॥
प्रियप्रजस्यायमन्यो गुणः सर्वगुणाग्रणीः |
उच्चलक्ष्मापतेरासीदर्थनैस्पृह्यशालिनः ॥ ८५ ॥
जिघांसवः पापकामाः परस्वादायिनश्च ताः ।
रक्षांस्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः ॥ ८६ ॥
तेनेतिहासिनीं नीतिं श्रद्दधानेन सर्वदा ।
येन संपठता लोकं कायस्थोन्मूलनं कृतम् ॥ ८७ ॥
यत्ते विषूचिकाशूलसंन्यासेभ्यः किलेतरे ।
प्रन्त्याशुकारिणो विश्वं प्रजारोगा नियोगिनः ॥ ८८ ॥
पितरं कर्कटो हन्ति मातरं हन्ति पुत्तिका ।
हन्ति सर्व तु कायस्थः कृतघ्नः प्राप्तसंभवः ॥ ८९ ॥
गुणान्समर्प्य स्फुरता येनैवोत्थाप्यते शठः ।
वेताल इव कायस्थस्तमेवाहन्ति हेलया ॥ १० ॥
विषवृक्षो नियोगी च यदेवाश्रित्य वर्धते 1
चित्रं करोति तस्यैव स्थानस्यानभिगम्यताम् ॥ ९९ ॥
तेन ते क्ष्माभुजा मानक्षतिकार्यनिवारणैः ।
काराप्रवेशैश्च खलाः शमं नीताः पदे पदे ॥ ९२ ॥
कार्यान्निवार्य बहुशः सहेलाद्यान्महत्तमान् ।
भङ्गासूत्रमयं वासः कारायां पर्यधापयत् ॥ ९३ ॥
१ दायिनः शठाः इत्युचितः पाठः ।