पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ राजतराङ्गणी

निद्राच्छेदे च निशिध्यायंस्तस्योदयात्ययौ ।
भवस्वभाववैचित्र्यं मुहुर्मुहुरचिन्तयत् ॥ १७८८ ॥
अपि वर्षसहस्रेण देशे दायाददुः स्थितिः ।
नूनं न भविता भूय इति लोकोप्यमन्यत ॥ १७८९ ॥
दग्ध्वा तृणं तनु धनं प्रतनोति शष्पं
वृष्टिं सृजत्युपचितोष्मदिनं प्रदर्य ।
वैचित्र्यसंस्पृशि विधेर्नियमेन कृत्ये
न प्रत्ययः वचन चञ्चलनिश्चयस्य ॥ १७९० ॥
कृत्यं निर्वर्त्य विश्रान्त्यै धीरस्याबनतो मनः ।
विधिर्विधत्ते दीर्घान्यकार्यभारसमर्पणम् ॥ १७९१ ॥
आंरोढुं प्रथमस्य दीर्घमैदनप्रत्तक्कमस्याङ्क्षिणा
नो संत्यज्यत एव पादकटको यावद्वितीयोखिलः ।
वाहस्यासनरक्षिणः कलयतो भारावतारात्सुखा-
न्यारोहेण परेण तावदसहाधिष्ठीयते पृष्ठभूः ॥ १७९२ ॥
एवमेव क्षपामात्रं राज्ये निःशत्रुतां गते ।
शोकमूको नृपस्याग्रं प्राविशल्लेखहारकः ॥ १७९३ ॥
पृष्टः सभ्यैः स संभ्रान्तैर्यस्मिन्नेवाहि भूपतेः ।
यातो भिक्षाचरः शान्तिमरातिर्दत्तदुःस्थितिः ॥ १७९४ ॥
भ्रातरौ लोहरगिरौ बद्धौ द्वैमातुरौ पुरा ।
न्यस्तौ सुस्सलभूपेन यौ तौ सल्हणलोठनौ ॥ १७९५ ॥
ज्येष्ठे मृते कोट्टभृत्यैः कनिष्ठं लोठनं हठात् ।
तमिहाद्य त्रियामायामभिषिक्तमभाषत ॥ १७९६ ॥
सुतभ्रातृसुतैमै राज्याः सह पञ्चभिः ।
निर्यातं बन्धनादूचे कोशेषु स तमीश्वरम् ॥ १७९७ ॥

१ आरोदुः इत्युचितम् । २ दीर्घदमन इति स्यात् ।