पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

निदानं विप्लवे दीर्घे सर्वनाशेपि कारणम् ।
येषां बभूव तेप्येवं तुष्टुवुः सत्त्वविस्मिताः ॥ १७७६ ॥
नेत्रस्पन्दं भ्रुवोः कम्पं स्मेरास्यत्वं च नामुचत् ।
सजीवमिव तन्मुण्डं कियतीरपि नालिकाः ॥ १७७७ ॥
एकं व्योन्यविशञ्चित्रभानुं भूमौ पुनः परम् ।
तद्देहमप्सरःसङ्गं धाराम्वु च विदजडम् ॥ १७७८ ॥
सचिवा विजयक्षेत्रस्थितस्याग्रे महीपतेः ।
तेषां त्रयाणां मुण्डानि ततोन्येधुरुपाहरन् ॥ १७७९ ॥
श्रीसुधारत्नदन्त्यश्वशशाङ्कादिप्रकाशने ।
दृष्टचित्रस्वभावोब्धिर्यथायं पार्थिवस्तथा ॥ १७८० ॥
तत्र तत्राद्भुतं भावं दर्शयन्भुवनाद्भुतम् ।
परिच्छेद्यानुभावत्वं न केषामपि गच्छति ॥ १७८१ ॥
नादृप्यन्निहतोसाध्यः पितु योप्यभूदिति ।
न जहर्ष विनष्टोयं राजकण्टक इत्यपि ॥ १७८२ ॥
नाकुप्यत्स पितुर्मुण्डमेष भ्रमितवानिति ।
वीक्ष्य भिक्षोः शिरोव्याजभावादायस्त्वचिन्तयत् ॥१७८३ ॥
युग्मम् ॥
आकारस्यास्य संभाव्यं सत्त्वं न द्वेषवैकृतम् |
वैशद्यं स्फटिकस्येव नार्कालोकोपतप्तताम् ॥ १७८४ ॥
उत्कर्षात्प्रभृति व्यक्तममुं यावन्महीभुजम् ।
हा धिक्सुमृत्युना दृष्टं नेह देहविसर्जनम् ॥ १७८५ ॥
प्रसादवित्ता येण्यासन्पूर्वमस्योर्वराभुजः ।
तटस्था इव वीक्षन्ते तेद्य मुण्डावशेषताम् ॥ १७८६ ॥
इति क्षितीशोसामान्यसौजन्योन्तर्विचारयन् ।
आदिदेश रिपोः शीघ्रं तादृशस्यान्तसत्क्रियाम् ॥ १७८७ ॥

२०