पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० राजतरङ्गिणी

हर्म्यप्राङ्गनमायाते तीक्ष्णलोके युयुत्सया ।
उत्तिष्ठता तेन दायः स्तोकशेषः समाप्यत ॥ १७४१ ॥
दीव्यतः कान्तया साकं कामिनः सुहृदागमे ।
प्रत्युत्थास्नोरिव क्षोभो नान्तस्तस्य व्यजृम्भत ॥ १७४२ ॥
किमद्यापि वधेन स्याहूनामिति चिन्तयन् ।
स विहाय शरावापं सासिधेनुर्विनिर्ययौ ॥ १७४३ ॥
सुदीर्घचिन्तागलितायामश्यामलिभिः कचैः ।
चञ्चञ्चित्रपताकाङ्कमिव वीरपटाञ्चलैः ॥ १७४४ ॥
गण्डताण्डविनाच्छिद्रशङ्खताडङ्करोचिषा

चन्दनोल्लेखकान्त्या च द्योतिताहंक्रियास्मितम् ॥ १७४५ ॥
वितीर्ण चित्रचार्यन्ते विपर्यस्ततम् ।
द्योतयन्तमिवालातैः शस्त्रीनेत्राधरांशुकैः ॥ १७४६ ॥
कौसुम्भाधरवासोग्रबद्धधौताधराञ्चलैः ।
लोलैर्वीरहरिं बद्धसटाटोपमिवांसयोः ॥ १७४७ ॥
हङ्मनः पाणिपादैक्यचारुप्रचुरचारिभिः ।
चरन्तं मण्डलैचित्रैर्लघुचित्रस्थिरमैः ॥ १७४८ ॥
औचित्यस्योचितां चर्यामलंकारमहंकृतेः ।
अभिमानविभूतीनां नित्योत्सेकमनत्ययम् ॥ १७४९ ॥
अलक्षितक्षिप्रपातं स सर्वोप्युन्मुखो जनः ।
विचरन्तं तमैक्षिष्ट भिक्षुमने विरोधिनाम् ॥ १७५० ॥
कुलकम् ॥
राजबीजी मधोर्नप्ता तं प्रवीरः कुमारियः ।
भ्रातापि ज्येष्ठपालस्य निर्यातो रक्तिकोन्वगात् ॥ १७५१ ॥
हर्यैर्निम्नोन्नतैस्तैस्तैर्विशतः परिपन्धिनः ।
रुरोधैकः शरासारैर्गार्गिको भिक्षुसंश्रितः ॥ १७५२ ॥