पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

अतः प्रधानकोट्टेशस्यालः स समगृह्यत ।
प्रागेवार्थैरेतदर्थ ग्रनता दीर्घवागुराम् ॥ १७३० ॥
संक्षोभावसरे क्षत्ता ततो निःसंभ्रमोभवत् ।
शिक्षितं पक्षिणमिव त्यक्तं प्राप्यं विवेद तम् ॥ १७३१ ॥
स तानूचे न हास्यं मे नष्टे कार्येत्र साहसम् ।
सर्वनाशे हतेमुष्मिन्स्खशस्यालेपि किं भवेत् ॥ १७३२ ॥
अकुण्ठ्या भाग्यशक्त्या राज्ञः स्यालः खशस्य सः ।
सर्वान्नियन्त्र्य दुर्गाग्रात्तीक्ष्णादीनाजुहाव तान् ॥ १७३३ ॥
दस्यूनामसवः कण्ठे संदेहं मन्त्रिणां धियः ।
स्वस्त्रीणां प्रीतयः काष्ठां तीक्ष्णाश्चारुरुहुर्गिरिम् ॥ १७३४ ॥
स चर्मकौपीनपटीबद्धस्तत्स्वाभिधाङ्कितैः ।
इषुभि: स्वामिवत्स्वस्य ख्यापनं सर्वतो युधि ॥ १७३५ ॥
स ताम्बूलादरः सक्तिः सा केशश्मश्रुयोजने |
याभूदनुमुमूर्षूणां भिक्षुराजोपजीविनाम् ॥ १७३६ ॥
निश्चितान्ते ततस्तस्मिन्स तेषामन्ववर्तत ।
कोष्टेश्वरादिशिविरं तूर्ण शरणमीयुषाम् ॥ १७३७ ॥
तिलकम् ॥
एकैकशो लक्ष्मकेण युक्ताः स्वैः प्रेरितैर्भटैः ।
टिक्कः स्वं वीक्ष्य वलितं निचकर्ताङ्गुलिं भयात् ॥ १७३८ ॥
खरौरस्मिन्नवसरे स पलायनशङ्किभिः ।
रक्ष्यमाणस्तेष्वहःसु मनस्तापादभुक्तवान् ॥ १७३९॥
वीरस्ताम्यन्चिलम्बेन तीक्ष्णानामाहवोत्सुकः ।
तस्थौ भिक्षाचर: स्वान्तमक्षवत्या विनोदयन् ॥ १७४० ॥

१. बन्धः इत्युचितम् ।