पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ राजतरङ्गिणी

स हि भिक्षोः कृतद्रोहतुमुले प्रस्तुतो वधम् ।
तस्माद्राजानुगेभ्यो वा स्वस्याशय विनिर्ययौ ॥ १७१८ ॥
अद्रोहोस्मीति लोकस्य प्रत्ययाय चकर्ष च ।
कृपाणीमुदरं हन्तुं रक्ष्यमाणो निजानुगैः ॥ १७१९ ॥
सानुगस्त्यक्तमार्गा स विलङ्घय नृपवाहिनीम् ।
अद्रिप्रस्रवणोपान्ते नातिदूरेभ्युपाविशत् ॥ १७२० ॥
उच्छुसंश्चिरसंप्राप्तैरम्भोभिर्दुर्गनिर्गतः ।
मायां प्रयोक्तुं प्रारेभे प्रेरितः सोन्यडामरैः ॥ १७२१ ॥
संजातं लम्बमानार्कमहस्तद्रक्ष्यतां क्षणम् ।
भिक्षुः क्षपायामास्कन्दमपनेष्यन्ति डामराः ॥ १७२२ ॥
इति तद्वाचिकात्तीक्ष्णान्नीविभिर्मन्त्रिणां समम् ।
खरौस्त्यजद्भिर्द्विषतो न्यरुध्यन्तारुरुक्षवः ॥ १७२३ ॥
ततः किलकिलारावमुखरैः करतालिकाः ।
यौघैर्ददद्भिः सचिवा व्यगृह्यन्ताकुलाशयाः ॥ १७२४ ॥
मुक्ताः स्वामिद्रुहः कृच्छ्रगता राज्यं प्रसाधितुम् ।
द्विषतो मन्त्रिभिः स्वार्थो दत्त्वार्थान्को नु साधितः ॥ १७२५॥
राजकार्ये च भानौ च लम्बमानेथ लक्ष्मकः ।
किमेतदिति तं नीवि खशस्यालमभाषत ॥ १७२६ ॥
सोभ्यधात्कुम्भदास्यापि रोद्धुं शक्यं चिकीर्षितम् ।
खशानां प्रत्यवस्थाता कथं तत्रास्य संनिधिः ॥ १७२७ ॥
स हन्तुं वैपरीत्यं तं खशानां त्वं व्रजेत्यथ ।
उक्त्वा व्यसृजदानन्दं जहसे चान्यमन्त्रिभिः ॥ १७२८ ॥
सुदूरदर्शिना राज्ञा विषलाटाध्वपाततः ।
देङ्गपालगृहा......दारम्भः समभाव्यत ॥ १७२९ ॥