पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

आनन्दाख्यः खशाधीशस्यालः कृतगतागतः ।
नीत्वा टिक्कं प्रतीहाराभ्यर्ण भूयोप्यरोपयत् ॥ १६९४ ॥
प्रतीहारस्य टिक्केन सहैक्यं वीक्ष्य डामरैः ।
निःसंशयं हतोज्ञायि भिक्षुः कोष्टेश्वरादिभिः ॥ १६९५ ॥
संरब्धास्तद्विमोक्षाय प्राहिण्वंस्ते खशान्तिकम् ।
दूतानूरीकृतस्वर्णदाना भूरिधनैः समम् ॥ १६९६ ॥
खशस्तु दध्यावुत्कोचं गृहीत्वास्माभिरुज्झितः ।
जानाति रक्षितान्प्राणान्भिक्षुः कोष्टेश्वरादिभिः ॥ १६९७ ॥
समन्युः प्राप्तराज्योथ देङ्गपालोथ दूरगः ।
हन्यान्मां जयसिंहस्तद्रक्ष्यः पक्षः प्रयत्नतः ॥ १६९८ ॥
मत्वेति तेन प्रत्युक्ता भिक्षं शौचस्थितं गृहात् ।
विपाट्यान्तः फलहकं निर्गच्छेत्यूचिरेपि ते ॥ १६९९ ॥
स त्वमेध्योपलिप्ताङ्ग: श्वेवावस्करवर्त्मना ।
यात इत्ययशो लोके ध्यायन्मानी न निर्ययौ ॥ १७०० ॥
कोष्टेश्वरो व्यक्तकृत्यः सैन्यक्षोभेच्छया क्षिपन् ।
रूक्षं कालविदा प्राह्णे प्रतीहारेण सान्त्वितः ॥ १७०१ ॥
नीवौ खशाद्यैर्दत्तायामाप्रत्यूषादगृहात ।
व्यवसाय: प्रतीहारमुख्यैर्भिक्षुप्रमापणे ॥ १७०२ ॥
गच्छद्भिरागच्छद्भिश्च राजा दूतैः प्रतिक्षणम् ।
अन्विष्यन्विजयक्षेत्रे वार्ता पर्याकुलोभवत् ॥ १७०३ ॥
तावद्भिराहवैस्तैस्तैः साहसे दश वत्सरान् ।
कृतयत्नस्य साध्योभून यो वृद्धमहीभुजः ॥ १७०४ ॥
डिम्बो राजानुगा डिम्बास्तस्य भिक्षोः प्रमापणम् ।
साध्यमेते हि मन्यन्ते हन्त किं केन संगतम् ॥ १७०५ ॥