पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टंमस्तरङ्गः ।

यो यो हि व्यग्रहीत्तं तं संधाय सविधस्थितः ।
तमन्वहं प्रतीहारः सानुग्रहमिवैक्षत ॥ १६५८ ॥
प्रगल्भमाने शास्त्येवमुदयः कम्पनापतिः ।
अवधीच्छद्मना दृप्तं प्रकटं कालियात्मजम् ॥ १६५९ ॥
अविश्वासोल्बणान्सर्वलवन्यानथ लक्ष्मकः ।
निर्मर्यादान्कम्पनेशमीषत्सान्त्वमजिग्रहत् ॥ १६६० ॥
स्नात्वाभ्येष्यति गङ्गायां यावत्सुजिर्विसूत्रताम् ।
तावत्कथं मया नेयाः कश्मीरा इति चिन्तयन् ॥ १६६१ ॥
तावन्मात्रान्तरव्याप्त्या राज्ञो विज्ञाय डामरान् ।
भिन्नान्भिक्षाचरोविक्षद्विषलाटां हिमागमे ॥ १६६२ ॥
मण्डलस्यान्तरे तस्य विविक्षो रुद्धडामरः ।
प्रतीहारो हिमर्तुश्च निषेद्धा समपद्यत ॥ १६६३ ॥
स टिक्केन पितृद्रोहादेकान्तद्वेषिणा रिपोः ।
आनीतः संमतैर्दत्ताप्यायः सर्वैश्च डामरैः ॥ १६६४ ॥
प्रतीक्षमाणो राज्याप्तिहेतुं सुजिसमागमम् ।
निर्भयष्टिक्कजामातुर्भागिकस्य खशप्रभोः ॥ १६६५ ॥
बाणशालाभिधे दुर्गे वसन्नल्पोच्छ्रितावपि ।
दूतैर्विभेदमनयत्सर्वडामरमण्डलम् ॥ १६६६ ॥
प्रमोदं सुहृदां त्रासं द्विषां च विसृजन्पुरः ।
व्यावर्तताथ गङ्गायाः सुजिर्विहितमजनः ॥ १६६७ ॥
पूर्वविप्रकृते भिक्षावस्मिंश्चाभेदमागते ।
यथामुष्य महीभर्तुस्तथास्माकं भयं भवेत् ॥ १६६८ ॥
ध्यात्वेति सिंहदेवेन प्रार्थितो व्याजमाददे ।
सुजिस्वीकरणोद्योगे सोमपालो भयाकुलः ॥ १६६९ ॥