पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

उपसिंह शनैश्च निरीक्षितैः ।
प्रेरितः सोमपालोथ सुजेर्मन्दादरोभवत् ॥ १६४६ ॥
स्वयमेत्य प्रतीहारस्तत्र राजपुरीपतिम् ।
सीमान्तभुवमानिन्ये कन्यकोद्वाहसिद्धये ॥ १६४७ ॥
जातां कहनिकाख्यायां महादेव्यां महीपतेः ।
उपयेमे नृपसुतां सोमोम्बापुत्रिकाभिधाम् ॥ १६४८ ॥
याते तस्मिन्कृतोद्वाहे नागलेखाभिधां सुधीः ।
तत्स्वस्त्रेयीं प्रतीहारो भूभुजे प्रत्यपादयत् ॥ १६४९ ॥
इत्थं राष्ट्रद्वये बद्धसंधौ निरवकाशताम् ।
प्राप्तः प्रतस्थे हेमन्ते सुजिस्त्रिपथगोन्मुखः ॥ १६५० ॥
जालंधरे संघटितो ज्येष्ठपालो निनाय तम् ।
गाढावमाननिर्नष्टसौष्ठवं भिक्षुपक्षताम् ॥ १६५१ ॥
त्वयि भिक्षाचरे चैकसैन्यनायकतां गते ।
नोपेन्द्रो वा महेन्द्रो वा समर्थौ प्रत्यवस्थितौ ॥ १६५२ ॥
राज्यप्रदस्य ते यश्च चक्रे राजा विमाननाम् ।
तस्थुषो यश्च विषये प्रतिकुर्मस्तयोर्द्वयोः ॥ १६५३ ॥
इति संप्रेरितस्तेन देङ्गपालान्तिकस्थितेः ।
यियासुः सोन्तिकं भिक्षोर्भागिकेन न्यषिध्यत ॥ १६५४ ॥
अनिक्षिप्तवतोस्थीनि स्वामिनो जाह्नवीजले ।
न युक्तमेतत्ते कृत्यमित्यावेगादशाधि च ॥ १६५५ ।।
स्नात्वा धुनद्यामेष्यामि पार्श्वे व इति निश्चयम् ।
स पीतकोशः कृत्वास्य ययौ प्रस्तुतसिद्धये ॥ १६५६ ॥
प्रतीहारकरन्यस्तसर्वभारस्तु भूपतिः ।
मन्दाक्रान्तितया राज्यमसुस्थितममन्यत ॥ १६५७

.