पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

श्लाघ्यश्रमैः प्रतिकलं तस्य सेवाविधायिभिः ।
प्राप्तं त्रिचतुरान्वारान्क्षणदास्वपि दर्शनम् ॥ ५८ ॥
सेव्यमानः सदाक्षिण्यः क्षणेनैव फलप्रदः ।
कस्यैन्द्रजालिकैरुप्तः शाखीव न बभूव सः ॥ ५९ ॥
वास्तव्यानां निशम्यार्ति तेन दैन्यनिवारणम् ।
चक्रे पित्रेव पुत्राणां संत्यक्तेतरकर्मणा ॥ ६० ॥
स्वसंचितानि सोन्नानि विक्रीणानोल्पवेतनैः ।
दुर्भिक्षमुद्गतावेव जघान जनवत्सलः ॥ ६१ ॥
निवार्य चौर्याचरणात्कृपाईस्तस्करानपि ।
कोशाध्यक्षान्स विद्धञ्चकारागर्ह्यजीविकान् ॥ ६२ ॥
कः संविभाग्य छेत्तव्या विपदः कस्य मण्डले ।
इत्यन्विष्यन्सदैकैकं चारैश्चिन्तापरोभवत् ॥ ६३ ॥
तस्यैकोप्यर्थनैस्पृह्यं नाम कोपि महान्गुणः ।
अनुषक्तो गुणैस्तैस्तै राज्ञः पल्लवितोभवत् ॥ ६४ ॥
स स्थित्यै दण्डयन्दण्ड्यानघालेषभयाद्धनम् ।
तेषां नादत्त सत्कर्म शुद्धये तांस्त्वकारयत् ॥ ६५ ॥
प्रस्तुतस्यार्थिने दातुं वस्तु तस्यैकसंख्यया |
सहस्रसंख्यया दानश्रद्धागात्पूर्णतां यदि ॥ ६६ ॥
श्रूयतेर्थी यथा मह्यं देहि देहीति गां वदन् ।
तथास्मै देहि देहीति वदन्दाता स शुश्रुवे ॥ ६७ ॥
अनुदात्तं क्षिप्तकालं क्षीणसंख्यमसत्कृतम् ।
नेतृदूतादिनीतार्थं न तद्दत्तमदृश्यत ॥ ६८ ॥
उत्सवे दैन्यविज्ञप्तौ रञ्जने कार्यसाधने ।
आलेख्यलीनशाखीव न सोलभ्यफलोभवत् ॥ ६९ ॥