पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० राजतरङ्गिणी

त्यज्येत हृतकार्योसौ निराशैरनुजीविभिः ।
मत्वेति तदधीकारानन्येभ्यस्तूर्णमार्पयत् ॥ १६२३ ॥
राजस्थानात्स्रजं धन्यमुदयं कम्पनादपि ।
अजिग्रहन्नरपतिः खेरीकार्य च रिहणम् ॥ १६२४ ॥
हताधिकारे प्रव्यक्तवैकृते नृपतौ ततः ।
अल्पावशेषानुचरः सुजिरासीद्विशङ्कितः ॥ १६२५ ॥
विमानितः पुराद्गङ्गायात्रामुद्दिश्य मानवान् ।
सोथ सुस्सलभूभर्तुरस्थीन्यादाय निर्ययौ ॥ १६२६ ॥
औत्सुक्यात्प्रार्थनाकाङ्क्षी राजधान्यन्तिकेन सः ।
निर्गच्छत्राजपुरुषैर्न राज्ञा वान्वरुध्यत ॥ १६२७ ॥
तन्निर्वासनगर्वस्य स्थापनायानुयात्रिके ।
प्रतीहारस्तस्य गुप्यै कोशादेः स्वात्मजं व्यधात् ॥ १६२८ ॥
निग्रहानुग्रहावस्सदायत्ताविति रक्षिणम् ।
पुत्रं प्रादाल्लक्ष्मकोष इति ध्यायन्स विव्यथे ॥ १६२९ ॥
निवृत्तो लक्ष्मको द्वारात्पर्णोत्सं शनकैर्गतः ।
अवारोपयदद्रोहो भागिकं लोहराचलात् ॥ १६३० ॥
प्रतीहारविसृष्टाय धात्रेयाय महीभुजः ।
प्रेमाभिधाय तत्कोट्टाधीकारं च समापर्यत् ॥ १६३१ ॥
उत्खाय लोहरत्यागाच्छङ्काशङ्कं महीपतेः ।
स ग्रीष्मविषमं कालं राजपुर्यामलङ्घयत् ॥ १६३२ ॥
अमात्यकन्दुकव्रातपातनोत्पातनक्षमः ।
आयत्तडामरः प्राप प्रथां कामपि लक्ष्मकः ॥ १६३३ ॥
द्वारेथाकारयत्सुजिप्रतिमल्लविधित्सया

कृष्यमाणो राजवंशपौरुषं राजमङ्गलम् ॥ १६३४ ॥