पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ राजतरङ्गिणी

वीक्ष्याश्वच्छन्त्रतुरगैरेकैकं पार्थिवाधिकम् ।
सुस्सलक्ष्मापतेधैर्यमैष्टुर्य तुष्टुवुर्जनाः ॥ १५३६ ॥
औदार्याकारतारुण्यवेषसौन्दर्यमन्दिरम् ।
कोष्टेश्वरोधिकं स्त्रीणां प्रययौ प्रेक्षणीयताम् ॥ १५३७ ॥
प्रशान्तविप्लवे देशे ययाबुत्सववाद्यताम् ।
विशद्धरिलवन्यौघतूर्यघोषो दिवानिशम् ॥ १५३८ ॥
क्षीराद्या लक्ष्मकेणापि सर्वे मडवराज्यतः ।
आनीताः पार्थिवाभ्यर्ण सैन्यार्णवभयंकराः ॥ १५३९ ॥
अपि भूपालवाल्लभ्यादभूद्राजोपजीविनाम् ।
प्रतीहारगृहद्वारप्रवेशो बहुमानकृत् ॥ १५४० ॥
लवन्यलुण्ठितग्रामतया दुर्भिक्षदुःसहः ।
व्ययोत्तरङ्गः कालोभूत्स राज्ञो धनदश्रियः ॥ १५४१ ॥
डामरेभ्यो नृपः पारात्संगृह्णन्कृतवेतनः ।
निनायाभ्यन्तरं वृद्धिं बाह्यं चापचयं जनम् ॥ १५४२
तिष्यवैश्यार्घदेवाद्या ज्ञातयो जनकद्रुहाम् ।
राजद्रोहोचितां राज्ञा विपत्तिमनुभाविताः ॥ १५४३ ॥
मासैश्चतुर्भिः स पितृप्रमयाहादनन्तरम् ।
अनन्यशासनं राष्ट्रं स्वमेव समपादयत् ॥ १५४४ ॥
निवासनगरं पौराः सर्वसामर्थ्यवर्जिताः ।
अनन्तै राष्ट्रमाकीर्ण डामरैः पार्थिवोपमैः ॥ १५४५ ॥
बद्धमूलो नातिदूरे सर्वभारसहो रिपुः ।
सबाह्याभ्यन्तरा मन्त्रिसामन्ता वैरिसंश्रिताः ॥ १५४६ ॥
सत्तोपदेशवृद्धस्य नैकस्यापि नृपास्पदे ।
अधर्मबहुलाः सर्वे भृत्या द्रोहकवृत्तयः ॥ १५४७ ॥