पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

काप्यहंपूर्विकोत्तस्थौ मनुजेश्वरकोष्टयोः ।
प्रयातुं पार्थिवाभ्यर्ण लाभसौख्याभिलाषिणोः ॥ १५२४ ॥
ज्ञात्वाथ तत्काकरुहाद्गृहीतस्वपरिच्छदः ।
देशान्तरोन्मुखो भिक्षुराषाढे मास्यवाचलत् ॥ १५२५ ॥
अनुयाद्भिः स दाक्षिण्यशेषाद्विहित सान्त्वनैः ।
तदाद्यैर्डामरैः क्रुध्यन्न निरोद्धुमपार्यत ॥ १५२६ ॥
अकरोत्स्वैरिणीसूनुतया शीलबहिष्कृतः ।
अतिरूपेषु दारेषु तस्य कोष्टेश्वरः स्पृहाम् ॥ १५२७ ॥
सां हरेः फणारत्नमहेर्ज्वालां हविर्भुजः ।
बालां च तस्य संस्प्रष्टुं कोप्रशान्तस्य शक्नुयात् ॥ १५२८ ॥
समं सौस्सलिना बद्धसंधिराश्रयकाङ्क्षिणः ।
सोमपालः स्वविषये नादात्तस्य प्रतिश्रयम् ॥ १५२९ ॥
उद्विजेतः प्राणहरैः प्रयतैस्तस्य सर्वतः |
तद्देशदुर्गममहीसीमान्तं सुल्हरीं ययौ ॥ १५३० ॥
त्रिगर्तेषु दया शीलं चम्पायां मद्रमण्डले |
त्यागो दार्वाभिसारेषु मैत्री नामर्त्यधर्मिणाम् ॥ १५३१ ॥
पीडयेत्त्यक्तभीर्भूभृद्दूरस्थे त्वयि डामरान् ।
त्वामेवाभ्यर्थ्य राजानं ततः कुर्युः क्रमेण ते ॥ १५३२ ॥
क्ष्मां तद्रजामोर्थयितुं सांप्रतं नरवर्मणः ।
मत्रिभिर्युक्तमित्युक्तमाप मत्रं न चाग्रहीत् ॥ १५३३ ॥
वसाल्पपरिवारोस्मद्गृह इत्यप्यगृह्णतः ।
श्वशुरप्रार्थनां तस्य भृत्याः पार्श्वादवाचलम् ॥ १५३४ ॥
प्रावर्तताथ नगरे विशद्भिविभवोज्ज्वलैः ।
सुलग्नसुलभे काले वरयात्रेव डामरैः ॥ १५३५ ॥