पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० राजतरङ्गिणी

जयराजयशोराजौ तन्मुख्यौ भोजकात्मजौ ।
प्रविश्य देवसरसं व्यधाहिक्कोपवेशने ॥ १५१२ ॥
ययुर्विनष्टसंघातास्तस्मिन्पश्चात्प्रधाविते ।
भिक्ष्वादयः शूरपुरं स्वोर्वी कोष्टेश्वरादयः ॥ १५१३ ॥
गर्छौ महाभये सोमपालदूतः पलायितः ।
दास्याः सुतेन प्रहितः कुत्रास्मीति प्रभोर्व्यधात् ॥ १५१४ ॥
स हि तादृयहारम्भक्षोभसाध्योन्नतीच्छुताम् ।
तस्य सिंहीस्पृहाक्रान्तगोमायुवदमन्यत ॥ १५१५ ॥
प्रमादात्स्वामिनो राज्यं चिरं नष्टं मितैर्दिनैः ।
सुजि: प्रसाध्य प्रददावेवं स स्वामिसूनवे ॥ १५१६ ॥
शमालादीनपि व्यूढान्दानोपायेन डामरान् ।
पौरांश्च भिक्ष्वाश्रयिणो राजा भेत्तुं प्रचक्रमे ॥ १५१७ ॥
राज्ञः परीक्ष्य सामर्थ्यमथ कुर्मो यथोचितम् ।
इति सर्वाभिसारेण ते संमत्र्य रणं ददुः ॥ १५१८ ॥
रजोजवनिकालक्ष्यभटौघनटताण्डवः ।
दामोदरेभूत्संग्रामः स वीरग्रामघस्मरः ॥ १५१९ ॥
कोष्टेश्वरवशं यातं रक्षता पितरं क्षतम् ।
लब्धाः सहजपालेन लाघाः प्रकृतिभिः समम् ॥ १५२० ॥
श्रमस्तत्राविशेषोभूद्राशो भिक्षाचरस्य च ।
भिक्षुस्त्वनन्यसंवेद्यं विवेदात्मपराजयम् ॥ १५२१ ॥
ततः प्रभृति यः प्रातः स न सायमदृश्यत ।
योद्य वा न परेधुः स सैनिको भैक्षवे बले ॥ १५२२ ॥
एवं त्यक्त्वा परान्पौरडामरेषु नृपान्तिकम् ।
प्रयात्सु लाभसत्कारानुचितान्प्राप्नुवत्सु च ॥ १५२३ ॥