पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८. राजतरङ्गिणी

अदृष्टपूर्व स्वचमूचकैक्यं वीक्ष्य डामराः ।
भिक्षोर्हस्तगतं राज्यं मत्वाशङ्किषताथ ते ॥ १४८९ ॥
एकैकस्येष धीशौर्यमिन्त्रामिन्त्रादि दृष्टवान् ।
नोत्तिष्ठेत्प्राप्तराज्यः किमास्कन्देषु गृहान्तरात् ॥ १४९० ॥
इति संमत्र्य ते राज्यं सोमपालाय दित्सवः ।
दूतान्निगूढं प्राहिण्वन्सोपि दूतं व्यसर्जयत् ॥ १४९१ ।।
आकारचारवैक्कुव्यैः पशुतुल्यस्य तस्य तैः ।
राज्यभोगा अभङ्गा नो भविष्यन्तीत्यचिन्त्यत ॥ १४९२ ॥
भोगलोभोजितौचित्यदस्युसंघचिकीर्षितम्

देशेत्र पापात्पापीये दैवान्न समपादि तत् ॥ १४९३ ॥
दास्येप्ययोग्यो यो राज्ये स इत्यास्तां त्रपान्यतः ।
शक्येत पातुं देशोयं किमीषदपि तादृशा ॥ १४९४ ॥
शालीन्पलालपुरुषोवति यः कृशानु-
दग्धाननश्चटकपेटकभीतिदानैः ।
त्रातुं स काननतरून्विहितो विद्ध्या-
त्किं तत्र भञ्जनकृतां वनकुञ्जराणाम् ॥ १४९५ ॥
भिक्षोर्नेदिष्ठतां दिष्टवृद्धिव्याजात्ततो भजन् ।
तद्दूतो डामरान्गूढं नीविदानोद्यतान्व्यधात् ॥ १४९६ ॥
वैशाखेथ कृतारम्भस्तदा संभावितत्वरः ।
निर्गत्य नगरात्सुजिर्गम्भीरातीरमाययौ ॥ १४९७॥
तस्याभियोगः श्लाघ्योभूयोद्धुं यत्समवायिनः ।
एकाकी तावतो वीरानूरीकृत्य स निर्ययौ ॥ १४९८ ॥
अन्तःपाते साहसानां नाद्भुतं तद्विधेर्वशात् ।
जीयते लक्षमेकेन लक्षेणैकोथवा युधि ॥ १४९९ ॥