पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

प्रत्यूषे प्रचलंस्तैस्तैः पृष्ठलग्नैः स डामरैः ।
न मुहूर्तमपि त्यक्तः प्रहरद्भिरितस्ततः ॥ १४०७ ॥
वृद्धस्त्रीवालभूयिष्ठान्सहप्रस्थायिनो जनान् ।
ययौ रक्षन्पुरः कृत्वा पशुपालः पशूनिव ॥ १४०८ ॥
पञ्चशत्या हयारोहै: सह व्यावृत्य तिष्ठता ।
कंचित्क्षणं तेन रक्षा तेषां कर्तुमशक्यत ॥ १४०९ ॥
द्राक्षापण्डद्रुमव्यूहसंबाधेध्वन्यसाध्वसैः ।
बाध्यमानोरिभिर्लोकं सोत्याक्षीत्तु पदे पदे ॥ १४१० ॥
हतस्य स्वामिनः स्वामिसूनोश्च व्यसनस्थितेः ।
आनृण्यकाङ्क्षिणा तेन तत्र ह्यात्मैव रक्षितः ॥ १४११ ॥
येषां प्राणपरित्यागे निश्चयं बनतामपि ।
न योग्यकालापेक्षास्ति किं तैर्हिस्रपशूपमैः ॥ १४१२ ॥
हन्तुं तन्नष्ट॒मायान्तं रुद्ध्वा पद्मपुरान्तिकम् ।
अवसण्डामराः क्रूराः खडूवीविषयौकसः ॥ १४१३ ॥
खेरीतलालशाग्रामादुत्थाय पृथुसैनिकः ।
व्रज॑स्तेनाययौ तत्र प्रसङ्गे श्रीवकः पथा ॥ १४१४ ॥
तमनष्टानुगं सुजिरसाविति विशङ्किताः ।
निपत्य ते विधिरे हतलुण्ठितसैनिकम् ॥ १४१५ ॥
मेरुश्च सज्जनश्चाश्ववारौ तत्राहवे हतौ ।
क्षतो बट्टात्मजो मल्लो दिवसैर्यो व्यपद्यत ॥ १४१६ ॥
उद्दीपविहतश्वभ्रवहत्सलिलसंकटम् ।
उदीपपूरवालाख्यं स्थानं तत्र क्षणेभवत् ॥ १४१७ ॥
युवा युद्ध्वा प्रचलतस्तत्र पद्मपुराद्वहिः ।
रुद्धसैन्यस्य विशिखः श्रीवकस्याविशद्गलम् ॥ १४१८ ॥

१६ १२१