पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० राजतरङ्गिणी

क्षणेनैव ययुर्भङ्गं तांस्तान्वीक्ष्य हतान्निजान् ।
न संस्तम्भयितुं शेकुः स्वचमूञ्च पलायिनीः ॥ १३९६ ॥
सेनानाथाश्च ये मुख्या भिक्षुपृथ्वीहरादयः ।
अदृष्टपूर्व संत्रासं तेप्यशस्त्रिवदाययुः ॥ १३९७ ॥
विद्रवन्तोनुयाताः स्युस्ते चेद्दूरं नृपानुगैः ।
तन्नूनमवशिष्येत क्षणादेव न किंचन ॥ १३९८ ॥
वैमुख्यं तेषु यातेषु चिरात्सांमुख्यमाययौ ।
नवभूभृत्प्रभावेण नगरे विधुरे विधिः ॥ १३९९ ॥
अन्यथा कलितो लोकैरन्यथा दैवयोगतः ।
इत्थं राज्ञोईयोरासीद्विजयावजयक्रमः १४०० ॥
कंचिन्निपातयति बद्धपदं क्षणेन
कंचित्परं पिपतिषु नयति प्ररूढिम् ।
संकल्पनिर्विषयचित्रतरानुभाव
ओघोम्भसामिव तटं पुरुषं विधाता ॥ १४०१ ॥
अथ तत्तद्भयस्थानशान्तः सुजिर्दिनात्यये ।
दावव्याप्ताद्रिनिष्क्रान्तो निःसहोहिरिवाययौ ॥ १४०२ ॥
मेधाचक्रपुरग्रामस्थितः श्रुत्वा हतं नृपम् ।
स हि संमत्र्य रात्र्यन्तर्नोत्तस्थाववसत्परम् ॥ १४०३ ॥
रिल्हणादीन्स्थिताञ्शूरपुरादौ सैन्यनायकान् ।
प्रतीक्षमाणस्तैः साकं निर्वाधं नगरेविशत् ॥ १४०४ ॥
तमिस्रायां प्रत्यभिशाकृते तेषामनश्वरान् ।
स्वावासपृष्ठे ज्वलतो दीपानास्थापयत्ततः ॥ १४०५ ॥
वैमत्यात्ते तु पत्तीनां विद्रुतानां पृथक् पृथक् ।
निशि क्वापि परिभ्रष्ट न तत्कटकमाययुः ॥ १४०६ ॥