पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

विरोधिवशवर्तिभ्यो देशेभ्यः सैन्यनायकः ।
स हिमैरेव दुर्लङ्घ्यैः कथमेष्यति वर्त्मभिः ॥ १३७३ ॥
इत्थं विमृषतस्तस्य तत्तत्तीव्राभिषङ्गिणः ।
ययौ भीतिमतो भीमा कथंचित्सा निशीथिनी ॥ १३७४ ॥
प्रातश्चतुष्किकां पौरसमाश्वासाय निर्गतः ।
नष्टं कटकमन्वेष्टुं सोश्वारूढान्व्यसर्जयत् ॥ १३७५ ॥
मार्गानसूचीसंचारैस्तुषारौर्विवरोज्झितान्

आश्लिष्टवसुधामेघाः कर्तुं प्रारेभिरे ततः ॥ १३७६ ॥
नामाप्यलब्ध्वा सैन्यस्य मोघसैन्येषु दूरतः ।
निवृत्तेषु नियुक्तेषु विमृष्य नृपतिः क्षणम् ॥ १३७७ ॥
यद्यद्येनाहृतं तत्तत्परित्यक्तं मयाधुना ।
दत्तं चारीञ्चितवतामभयं सागसामपि ॥ १३७८ ॥
इत्याशां भ्रमयामास पटहोद्घोषणैः पुरे ।
साशीर्घोषास्ततः पौरास्तत्रारज्यन्त सर्वतः ॥ १३७९ ॥
तिलकम् ॥
अनन्तरनृपाचारवैधम्यकारकल्पया ।
तया सोनघया वृत्त्या फलं सद्योनुभावितः ॥ १३८० ॥
शतादप्यूनसंख्यैर्यः स्थितवाननुगैः समम् ।
अनुरागहृतैर्लोकैस्तत्कालं पर्यवार्यत ॥ १३८१ ॥
प्रियोक्त्यावेदनं प्रीतिदायोपायः प्रभोः पुरः ।
भजल्लोकस्याग्र्यमन्त्रिपदवीं लक्ष्मकोग्रहीत् ॥ १३८२ ||
राज्यं शय्यां नयत्येवं प्राज्ञे राशि नयक्रमैः ।
याति मध्यंदिने भिक्षुर्विविक्षुः पुरमाययौ ॥ १३८३ ॥
तस्य डामरपौराश्ववारलुण्ठाकसंकुलः ।
अदृष्टपूर्वी दहशे सैरष्टाग्रतिकरस्तदा ॥ १३८४ ॥